________________
पञ्चमव्रतातिचारस्वरूपम्-श्लो० ४८॥]
[१८५ __ अन्ये त्वन्यथाऽतिचारद्वयमपि भावयन्ति –स हि स्वदारसन्तोषी मैथुनमेव मया प्रत्याख्यातमिति स्वबुद्ध्या वेश्यादौ तत्परिहरति नालिङ्गनादि, परदारवजकोऽपि परदारेषु मैथुनं परिहरति नालिङ्गनादि, इति कथञ्चिद् व्रतसापेक्षत्वादतिचारौ । एवं स्वदारसन्तोषिणः पञ्चातिचाराः परदारवर्जकस्य तूत्तरे त्रय एवेति स्थितम् ।
अन्ये त्वन्यथाऽतिचारान् विचारयन्ति । यथा - "परदारवज्जिणो पंच हुंति तिन्नि उ सदारसंतुटे।
इत्थी उ तिन्नि पंच व, भंगविगप्पेहिं अइआरा" ॥१॥[न.प्र./५४, सं.प्र.७/४१] इत्वरकालं या परेण भाट्यादिना गृहीता वेश्या तां गच्छतः परदारावर्जिनो भङ्गः, कथञ्चित् परदारत्वात् तस्याः, लोके तु परदारत्वारूढेन भङ्ग इत्यतिचारता १। अनात्तायामनाथकुलाङ्गनायां या गतिः परदारवज्जिनः सोऽप्यतिचार:, लोके परदारत्वेन तस्या रूढत्वात् वास्तवकल्पनया च परस्य भर्तुरभावेनापरदारत्वाच्च २। शेषास्तु त्रयो द्वयोरपि भवेयुः ।
स्त्रियस्तु स्वपुरुषसन्तोष-परपुरुषवर्जनयोर्न भेदः, स्वपुरुषव्यतिरेकेणान्येषां परपुरुषत्वात् । परविवाहकरणमनङ्गक्रीडनं कामतीव्ररागश्चेति त्रयः स्वदारसन्तोषिण इव स्वपुरुषविषयाः स्युरिति । पञ्च वा कथं ? इत्वरात्तगमनं तावत्सपत्नीवारकदिने स्वपतिः सपत्नीपरिगृहीतो भवति, तदा सपत्नीवारकं विलुप्य तं परिभुञ्जानाया अतिचारः, अनात्तगमस्त्वतिक्रमादिना परपुरुषमभिसरन्त्या अतिचारः, ब्रह्मचारिणं वा स्वपतिमतिक्रमादिनाऽभिसरन्त्या अतिचारः । शेषास्त्रयः स्त्रियाः पूर्ववत् । ब्रह्मचारिणस्तु पुंसः स्त्रियो वाऽतिक्रमादिनैव सर्वेऽप्यतिचारा इति ध्येयम् ॥४६।। अथ पञ्चमव्रतस्यातिचारानाह -
धनधान्यं क्षेत्रवास्तु , रूप्यस्वर्णं च पञ्चमे ।
गोमनुष्यादि कुप्यं चेत्येषां सङ्ख्याव्यतिक्रमाः ॥४७॥ 'धनधान्यं' 'क्षेत्रवास्तु' 'रूप्यस्वर्णं' 'गोमनुष्यादि' 'कुप्यं' चेति पञ्चानां सङ्ख्या -यावज्जीवं चतुर्मासादिकालावधि वा यत्परिमाणं गृहीतं तस्या ये अतिक्रमाः - उल्लङ्घनानि ते 'पञ्चमे' पञ्चमाणुव्रतेऽतिचारा ज्ञेयाः ।
तत्र 'धनं' गणिम १ धरिम २ मेय ३ परिच्छेद्य ४ भेदाच्चतुर्द्धा । यदाह -
१. इत्थीए-इति धर्मबिन्दुवृत्त्यादौ पाठः ॥ २. भंगविगप्पेहि-मु० G. | भंगविगप्पेहिं नायव्वाइति L.P. सम्बोधप्रकरणे पञ्चाशकधर्मबिन्दुवृत्त्योश्च पाठः ॥ ३. पुरुषविषयाः-L.P. | ४. तुलायोगशास्त्रवृत्तिः ३।९४ प० ५३४ तः, प्रवचनसारोद्धारवृत्तिः प० २०१ ॥ ५. पारि मु० ॥
D:\new/d-1.pm5\3rd proof