SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वतिचारस्वरूपम्-श्लो० ४२॥] [१७१ "मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराण्हे । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः" ॥१॥[ष.स./१४८] एतदपि घटमानकमेवेति । तथा परिव्राजक-भौत-ब्राह्मणादयः स्नानादिपरायणा विषयानुपभुञ्जाना एव परलोकेऽप्यभीष्टसुखेन युज्यन्ते इति साधीयानेषो धर्म इत्यादि, दृश्यन्ते हि मुग्धबुद्धयः स्थलनिम्नक्षेत्रभूबीजवापककर्षकवत् धर्मार्थितया सर्वदर्शनान्याराधयन्तः । एवं च काङ्क्षणमपि परमार्थतो भगवदर्हत्प्रणीतागमानाश्वासरूपं सम्यक्त्वं दूषयति २। विचिकित्सा चित्तविप्लवः, फलं प्रतिसन्देह इत्यर्थः । स च सत्यपि युक्त्यागमोपपन्ने जिनधर्मेऽस्य महतस्तप:क्लेशस्य सिकताकणकवलवन्निःस्वादस्यायत्यां फलसम्पद्भवित्री ? अथ क्लेशमात्रमेवेदं निर्जराफलविकलमिति ?, उभयथापि हि क्रिया दृश्यन्ते । सफला निष्फलाश्च कृषीवलादीनाम् । अत इयमपि तथा सम्भाव्यते इति, विचिकित्सापि भगवद्वचनानाश्वासरूपत्वात् सम्यक्त्वस्य दोषः । इह द्रव्य-गुणविषयायाः शङ्कायाः क्रियाविषयत्वेनास्या भेदः । यद्वा विचिकित्सा सदाचारमुनीनामपि मलविषयिणी निन्दा, यथा -अस्नानेन प्रस्वेदजलक्लिन्नमलत्वाद् दुर्गन्धविषय इति । को दोषः स्याद्यदि प्रासुकवारिणा अङ्गक्षालनं कुर्वीरन्निति ? । इयमपि तत्त्वतो भगवद्धर्मानाश्वासरूपत्वात् सम्यक्त्वस्य दोषः ३। ____ तथा कुत्सिता जिनागमविपरीतत्वात् दृष्टिदर्शनं येषां ते कुदृष्टयो -मिथ्यादृष्टयस्तेषां - सर्वज्ञप्रणीतदर्शनव्यतिरिक्तानां शाक्य-कपिल-कणादा-ऽक्षपादादिप्रणीतमतवर्तिनाम् , पाखण्डिनामित्यर्थः । प्रशंसा-स्तुतिः, 'पुण्यभाज एते, सुलब्धमेषां जन्म, दयालव एते' इत्यादिका । इयं तु व्यक्तमेव सम्यक्त्वदूषणम् ।। तैः -कुदृष्टिभिश्चैकत्र संवासात् परस्परालापादिजनितपरिचयः संस्तवः । एकत्रवासे हि तत्प्रक्रियाश्रवणात् तत्क्रियादर्शनाच्च दृढसम्यक्त्वस्यापि दृष्टिभेद: संभाव्यते, किमुत मन्दबुद्धेर्नवधर्मस्येति तत्संस्तवोऽपि दूषणम् ५। पाखण्डिनां चौघतस्त्रीणि शतानि त्रिषष्ट्यधिकानि भवन्ति । यत उक्तम् - "असिइसयं किरियाणं, अकिरियवाईण होइ चुलसीई। अण्णाणिय सत्तट्ठी, वेणइयाणं च बत्तीसं" ॥१॥ [ सूत्र.नि.११९/प्र.सा.११८८ ] १. सा च-इति योगशास्त्रवत्तौ ॥ तला-तत्त्वार्थसिद्धसेनीयावत्तिः ७।१८ प० ९९ ॥ २. तलातत्त्वार्थसिद्धसेनीयावृत्तिः ७१८ प० ९९ ॥ ३. 'द् दुर्गन्धवपुष एत इति-इति योगशास्त्रवृत्तौ प० १८९ ।। ४. तुला-आवश्यकहारिभद्रीयवृत्तिः प०८१६-७॥ D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy