________________
१२
एव उभयतोऽपि कार्यमाणे मुद्रणे यदा यावद्वाचनं मुद्रयितुं नापारि तदा सार्द्धवर्षद्वयं वाचयित्वा साधुसमित्या सार्धवर्षद्वयस्य गृहीतो विराम आगमवाचनायां भविष्यति चोदयः षट्सप्तत्यधिकैकान्नविंशतौ शतेषु श्रीसिद्धाधित्यकायां वैशाखशुक्लषष्ठ्यां अधिनिवेशनेनेति च निर्णीतं साधुसमित्या, तत एव शेषाधिकारद्वयमयमुत्तरार्द्धमिदमाविर्भावितं चिरकालेन तत् क्षन्तव्यमेतत्पूर्वभागग्राहकैः, अत्र चोद्धारे श्रीमतां सिद्धिविजयाभिधानां प्रज्ञांशवर्याणां पुस्तकं शुद्धप्रायं श्रीमद्भिर्यशोविजयोपाध्यायैः स्वयं टिप्पितटिप्पणयुतं प्राप्यानायासेनैव मुद्रणमेतत् जातं, द्वितीयं तु जैनानन्दकोशगं प्रायः शुद्धं नूतनं च लब्धाभ्यामाभ्यां कृतेऽपि स्वमत्यनुसारेण शोधनकर्मणि स्खलनाप्रचुरत्वात् छद्मस्थताया विशेषतोऽस्मादृशां प्रमादमग्नानामिति ज्ञापनीया अस्मभ्यं स्खलना यतो द्वितीयावृत्तावुन्मार्जयिष्यामस्ताः । श्रीमहोपाध्यायाः श्रीमद्धीरसूरित:
श्रीहीरसूरयः ↓
विजयसेनः
↓
विजयतिलकः
↓ विजयानन्दः ↓ विजयराजः
एवं पट्टनुक्रमेण जातेषु श्रीविजयराजसूरिषु तेषां राज्ये चक्रुर्ग्रन्थमेनं, श्रीमन्तश्च श्रीविजयानन्दसूर्यन्तेवासिनां श्रीमतां शान्तिविजयाभिधानं पण्डितोत्तमानामन्तिषद उपाध्यायपदलङ्करिष्णवः, सत्ता च श्रीमतां प्रशस्तिनिर्दिष्टया “वर्षे पृथ्वीगुणमुनिचन्द्र [ १७३१ ] प्रमिते च माधवे मासे । शुद्धतृतीयादिवसे, यत्नः सफलोऽयमजनिष्ट" ॥२॥ इत्यार्यया स्पष्टतम एवाष्टादशशतकस्याद्या भागे, श्रीमतां च विहारः प्राचुर्येण गौर्जरत्रायामेव जातोऽवसीयते, ग्रन्थश्चायमहम्मादावादाभिजन श्रीशान्तिदासश्रेष्ठिप्रार्थनया व्यधायीत्यपि प्रशस्तितः स्पष्टतममेव, ग्रन्थस्यास्य मानं तु द्व्यधिकषट्शत्या युतानि चतुर्दश सहस्राणीत्यपि " प्रत्यक्षरं गणनया, ग्रन्थेऽत्र स्युरनुष्टुभाम् । चतुर्दश सहस्राणि षट्शती च द्विकोत्तरा" ॥३॥ इति श्लोकेन स्पष्टमेव, शेषं ग्रन्थावलोकनविचारणावेद्यमित्यर्थयन्ते उदन्वदन्तानन्दाः श्रमणसङ्घमनघरङ्गम् ।
श्रीसुरतद्रंगे फाल्गुनशुक्लपंचम्यां वेदमुन्यङ्केन्दुमिते वैक्रमेऽब्दे
D1-t.pm5 3rd proof
...