________________
७६ ] [ धर्मसंग्रहः- द्वितीयोऽधिकारः ऽनेकोपद्रवफलः, परलोकेऽप्यतिकटुकनरकतिर्यग्मनुष्यजन्मफलप्रदः । अतो न किञ्चिदनेन, उज्झितव्य एवायमिति । एवंविधनिर्वेदेनापि लक्ष्यतेऽस्त्यस्य सम्यग्दर्शनमिति ।
अनुकम्पा कृपा, यथा सर्व एव सत्त्वाः सुखार्थिनो, दुःखप्रहाणार्थिनश्च ततो नैषामल्पाऽपि पीडा मया कार्येत्यनयाऽपि लक्ष्यतेऽस्त्यस्य सम्यक्त्वमिति । सन्ति खलु जिनेन्द्रोपदिष्टा अतीन्द्रिया जीवपरलोकादयो भावा इति परिणामः आस्तिक्यम् । अनेनापि लक्ष्यते सम्यग्दर्शनयुक्तोऽयमिति । अत्र च पञ्चलक्षणप्रदर्शनेन तत्सहचरिताः सप्तषष्टिरपि भेदाः सूचिताः, सम्यक्त्वं च तैर्विशुद्धं स्यात् । यदाहुः .
-
'चउसद्दहण ४ तिलिंगं ३, दसविणय १० तिसुद्धि ३ पंचगयदोसं ५ । अट्ठपभावण ८ भूसण ५ लक्खण ५ पंचविहसंजुत्तं ॥१॥ [ प्र.सा./९२६ ] छव्विहजयणाऽऽगारं ६, छब्भावणभाविअं च ६ छट्टाणं ६ । इअ सत्तसठ्ठीदंसणभेअविसुद्धं तु सम्मत्तं" ॥२॥ [ प्र.सा./९२७] चउसद्दहण त्ति- ‘“परमत्थसंथवो खलु १, सुमुणिअपरमत्थजइजणनिसेवा २ । वावन्न ३ कुद्दिट्ठीण य, वज्जणा य ४ सम्मत्तसद्दहणा" ॥३॥ [प्र.सा./ ९२८/प्रज्ञा. सू. ११० / गा. १३१] तिलिंग त्ति - "सुस्सूस १, धम्मराओ २, गुरुदेवाणं जहासमाहीए । वेयावच्चे नियमो ३, सम्मद्दिट्ठिस्स लिंगाई" ॥४॥ [प्र.सा./९२९] दसविणयं ति- “अरिहंत १ सिद्ध २ चेइअ ३, सुए अ ५ धम्मे अ ५ साहुवग्गे अ ६ । आयरिअ १ उवज्झाए ८, पवयणे ९ दंसणे १० विणओ" ॥५॥ [प्र.सा./९३० ]
भत्तीपूआवन्नजणणं नासणमवन्नवायस्स । आसायणपरिहारो, दंसणविणओ समासेणं ॥६॥ [प्र.सा./९३१ ] तिसुद्धि त्ति - "मुत्तूण जिणं 'मुत्तूण, जिणमयं जिणमयट्ठिए मुत्तुं । संसारकत्तवारं, चिंतिज्जंतं जगं सेसं" ॥७॥ [ प्र.सा./९३२]
पंचगयदोसं ति - " संका १ कंख २ विगिच्छा ३ पसंस ४ तह संथवो ५ कुलिंगीसुं । सम्मत्तस्सइयारा, परिहरिअव्वा पयत्तेणं" ॥८॥ [प्र.सा./९३३] अट्ठपभावण त्ति - "पावयणी १ धम्मकही २, वाई ३ नेमित्तिओ ४ तवस्सी अ५ । विज्जा ६ सिद्धो अ ७ कई ८, अट्ठेव पभावगा भणिआ" ॥९॥ [प्र.सा./९३४ / चे.व.म. १२८ ]
१. तत्सहचारिता - मु० ॥
D:\new/d-1.pm5\3rd proof