________________
श्रीवल्लभोपाध्यायविरचित
[एकादशः गत्वा तेऽपि ततस्तत्र सन्तीदासं न्यवेदयन् । विजयदेवमूरीन्द्रो जावालपुरमागमत् ॥३२॥ मुक्तिसागर आदाय भवन्तमभिगच्छतात् ! अथवा-गुरुस्त्वदीय आदाय भवन्तमभिगच्छतात् ।
पोस्फुरीति सती शक्तिर्दातुं प्रतिवचो यदि ॥३३॥ सन्तीदासो वचः श्रुत्वा तेषामिति मनोहरम् । अवोचच्च गुरु स्वीयं मुक्तिसागरनामकम् ।।३४॥ उत्सूत्रभाषकत्वाच श्रीसूर्युदितलोपनात् । तद्वचः कर्णयोः श्रत्वा तद्वचःमहतोऽभवत् ॥३५|| मुक्तिसागरनामा ज्ञो मुक्तिसागरनामभाक् । मुक्तिसागरनामोजःसंजातरसनादृषद् ॥३६॥ विजयदेवसूरीन्द्रनाममाहात्म्यतर्जितः । निरुत्तरवचःशक्ति गच्छन्मुक्तिसागरः ॥३७॥ द्वौ भेदौ सागरो धत्ते विष-रत्नसमुद्भवात् । कलिकालस्य माहात्म्यात् सोऽधुनाऽस्त्याद्यभेदभाक्!।
३२-तेऽपीति श्रीविजयदेवसूरिश्रावकाः सागरपक्षीय श्रावकाश्च ततः श्रीजावालपुरात् तत्र श्रीअहम्मदाबादे ।
३५-३६-युग्मम् , व्याख्या-अयं मुक्तिसागरनामसाक ज्ञः पण्डितः प्रतिवादी तद्वचःप्रहतः अभवत् । तस्य सान्तीदासस्य वचो वचनं श्रीविजयदेवसूरिवर्वादी मदाहूतः त्वया सह वाद कर्तुं श्रीजावालपुरे आयातः अथ त्वमपि तेन सह वार कर्तुं मया सह चल इत्येतल्लक्षणं, तेन प्रहतो निराकृत इव । तद्वचःप्रहतः संजात इत्यर्थः । किं कृत्वा ? तद्वचः कर्णयोः श्रुत्वा तस्य सन्तीदासस्य वचः श्रीविजयदेवसूरिर्वादी त्वया सह वादं कर्तुं श्रीजाबालपुरे आयात इति कर्णविषये श्रुत्वा । कथंभूतो मुक्तिसागरनामा ज्ञः ? मुक्तिसागरवासभाक् । मुक्तिरेव सा लक्ष्मीस्तस्या गरनाम विषनाम भजतीति मुक्तिलागरनामभाक् । मुक्तिलक्ष्म्याः विषनाम समान इत्यर्थः । यथा अन्यस्यापि सज्जनस्य दुराशयः प्रतिकूलभाषी पुरुषो विषोपमो भवेत्तथा मुक्तिसागरोऽपि प्रतिकूलवादी प्रतिवादी मुक्तिलक्ष्म्या विषोपमानो जात इति भावः । पुनः कथंभूतो मुक्तिसागर-* नामा ज्ञः? मुक्तिसागरनामोजःस जातरसनादपद्-मुक्तिरेव सा मुक्तिसा मुक्तिलक्ष्मी तामस्यति क्षिपति नाशयति यत्तत् मुक्तिसा:-मुक्तिप्राप्तिनिषेधकमित्यर्थः । ईदृशं यद्गमिव विषभिव यत् नाम स मुक्तिसागरनामा; अथवा अग इव पर्वत इव राजते यत्तत् अगरं पाषाणसदृशं मुक्तिसाश्च तत् अगरं च मुक्तिसागरं । एवंविधं यन्नाम तस्य यत् ओजस्तेजस्तेन संजाता रसना दृषद् यस्य सः, मुक्तिसागरनामोज:संजातरसनादृषद्-मुक्तिलक्ष्मीविनाशकविषप्रायपाषाणप्राय नामप्रभावसंजातजिह्वापाषाण इत्यर्थः । असु क्षेपणे दिवादिः परस्मैपदी, किवपि मुक्तिसाः । ओजो दीप्तिप्रकाशयोः अवष्टम्भे बले धातो तेजसीति हैमानेकार्थः । कस्मात् ईदशो जातः इत्याहउत्सूत्रभाषकत्वात् । चः पुनः श्रीसूर्युदितलोपनात् । श्रीसूरिणा श्रीविजयदेवसूरिणा उदितं उक्त श्रीसूर्युदितं तस्य लोपनं उल्लंघनं तस्मात् ।
Ahol Shrutgyanam