________________
सर्गः
विजय देवसूरि-माहात्म्यम् आद्य भेदं समासाद्य वर्तन्ते सागराः कलौ । सागरा इति नामानः प्रोच्यन्ते साधवोऽप्यमी । विजयदेवसूरीन्द्रसत्यवादिपराजिताः । सागरा इत्यकथ्यन्त तत्पतीपा हि साधवः ॥४१॥ अन्त्यं भेदं समासाद्य विद्यन्ते सागरा हि ये । सागरा इति नामानः प्रोच्यन्ते तेऽपि साधकः॥ विजयदेवसूरीन्द्रकथिताज्ञाविधायकाः । ते सर्वेषामुपादेया इव रत्नसमुच्चयाः ॥४३॥ अथवा सागराः प्रोक्ता द्विविधाः पूर्वमूरिभिः । केचित् मृष्टास्तथा क्षाराः केचिदिति जगस्थितिः।। आहताः मूरिणा ये ते मृष्टा-अन्येऽन्यथाविधाः । मृष्टाः क्षारा अगस्त्येन पीतास्त्यक्ता इवाऽभवन् । मूरिप्रतापसन्तप्तो निश्शक्तिमुक्तिसागरः । काकनाशं ननाशेव तस्थौ तत्रैव निष्पभः ॥४६॥ अथ श्रीभिन्दिमालादिवङ्गवासिमहाजनाः । संरक्षितुं चतुर्मासी श्रीसूरिं समाह्वयन् ॥४७॥ इयता च समागच्छन् वींझेवाद्रङ्गवासिनः । संभूय श्रावकाः सर्वे निश्चित्याङ्गीकृतं ह्यदः ॥४८॥ अन्ये सभ्या यदीभ्याश्च श्रावका द्रङ्गवासिनः । रक्षिष्यामश्चतुर्मासी तथाप्यत्र वयं गुरुम ॥४९॥ माहुः मूर्ति प्रणम्यैवं चतुर्मासी गुरो कुरु । वयं ग्राम्याः क्व चास्माकं त्वत्पदान्जरजोऽन्यतः॥५०॥ तीर्थ श्रीवरकाणाख्यं वन्दस्व चिरमिन्द च । त्वदीयाः सेवकाः स्मो नः कृतार्थान् कुरु च ध्रुवम् ॥ भिन्दिमालादिकद्रङ्गवासिनः श्रावकास्तदा । तूष्णींशीला विलक्षाश्च व्यराजंश्चित्रिता इव ॥५२॥ विज्ञाय निश्चयं तेषां चातुर्मासकरक्षणे । तूष्णीकः सूरिरप्यास्थादगीकृत्य च तद्वचः ॥५३!! न विधास्ये चतुर्मासी कथयिष्यामि चेदिति । एते दुःखं करिष्यन्ति यद्ग्राम्या नेति तिष्ठति
(-यद्याम्या न वसत्यतः-पा० )॥५४॥ युग्मम् । श्रावकान कांश्चिदापृच्छय प्रमोच्यैव च कांश्चन । प्राप्नोत् प्रस्थाय बींझेवानगरं सह तैर्गुरुः ।। मूरिः पर्यवसत्तत्र चतुर्मासी महोत्सवैः । प्रीणयन् श्रावकान् धर्मान् प्रणयन् प्रणयाश्रयान्॥५६।।
इत्थं श्रीविजयादिदेवगुरुणा सन्दृब्धमुत्साहता, विद्वेषिप्रतिवादिनां परिभवं दौर्गत्यविध्वंसकम् ।
४८-अदः इति किं इत्याह-अतो अनु अस्मात् पश्चात् त्वत्पदाब्जरज: त्वचरणकमलरेणुः अस्माकं क्व न कदापीति भावः ।
५१-इदि परमैश्वर्ये भ्वादिः परस्मैपदी, लात्वाशिषि लिड् लोटौ इति लोटो मध्यमपुरु. पैकवचने, सेयपिञ्चेति सेहो, अतोहेरिति हे कि इन्देति सिद्धिः ।
५५-क्रांश्चित् श्रावकान् मन्त्रिजयमल्लादि-जावालपुरवासिनः, कांश्चन श्रावकान् भिन्दिमालादिद्रङ्गवासिनः । तैः सह वीं झेवाश्रावकः सह ।
___५६-१७ वींझेबानगरे प्रणयाश्रयान् प्रेममन्दिरान प्रणयः प्रेमयाञ्चयोरिति हैमानेकार्थः ।
Ahol Shrutgyanam