________________
श्रीवल्लभोपाध्यायविरचित
[ अष्टमः लम्बितानेकसफुल्लपुष्पमालासमाकुलाः। किकिणीकारणत्कारचञ्चुरारावचञ्चुराः ॥१०॥ अद्य धन्या वयं लोका अप्येते किंकिणीरवैः ।
___ आरोहोत्पाटनादेषां कथयन्त्य इवेति किम् ॥१०६॥ त्रिभिर्विशेषकम् । अनेके शिविका लोकाश्चतस्रोऽभ्यवहंस्तदा । कृपस्कन्धैः स्वकस्कन्धैः सद्भक्त्या चोत्सवश्रिया ॥ आरभ्य स्वगृहात्तेऽथ मध्ये मेदतटस्य हि । रूप्याणुल्लालयन्तोऽमी मार्गषु निरगुस्तदा ॥ गच्छन्ति स्माग्रतस्तेषां ब्रुवन्त इति मानवाः । जयतानन्दताजस्रं वर्षध्वं च लसच्छ्रिया ॥ सङ्घन अपरदेशानां स्वदेशानां च भूरयः । धनिनो वसुधाधीशा मागधाद्याः परेऽपि च ।। मातङ्गाः पर्वतोत्तुङ्गा हयाः कल्लोलचञ्चलाः । स्यन्दनानि मनोज्ञानि सोत्साहाः पत्तयोऽपि च ॥ उपर्युपरिसद्वस्त्रा वर्षासूच्चाभ्रका इव । स्फूर्जन्नेजाः पुरः पार्थप्रान्ते चाक्षिप्रमोददाः ॥११२॥ पताका नरहस्तस्था ज्ञापयन्त्य इवेति नन् । कृत्तवस्त्राक्षरन्यासैमिथो युद्धाश्चतुर्नराः ॥११३॥ सच्चक्षुभिर्गवाक्षस्थाः सद्मोपर्युपरि स्त्रियः। पश्यन्ति स्म मिथश्चान्यान् लक्षयन्ति स्म पाणिभिः।। भेरीदुन्दुभिमुख्यानि वाद्यानि विविधानि हि । वादकैाद्यमानानि दिव्यानि स्वस्वजातिषु ।। अहङ्कारादिवानेके सलगता वरयोषिताम् ।
कर्णमियाणि गीतानि गायन्तो मधुरस्वरैः ॥११॥ नवभिः कुलकम् । दीक्षामहोत्सवं दिव्यं जातं प्रार न कदेशम । कृत्वा गच्छन् बहिङ्गात् यत्र ते मण्डपं शुभम् ॥ विजयसेनसूरीन्द्रसद्गुरोः प्रवराज्ञया । पाठकोत्तमदिव्यश्रीमेघविजयमण्डितम् !! ११८ ।। अथशान्यां विदिश्येते गत्वा त्यक्त्वा स्वपाणिभिः । भूषाम्बराणि सर्वाणि कुर्युलॊचं स्वमर्द्ध। साधुयोग्यानि दिव्यानि चीवराणि तदा मुदा । परिचाय गुरोः पार्थ आययुस्ते चतुर्नराः ॥ ततः प्रदक्षिणीकृत्य प्रणत्य च चतुर्नराः । तस्थुर गुरोर्नन्दौ स्थापितान् चतुरोऽहंतः॥१२१॥ यथाविधिविधिप्रज्ञो गुरुः सरसया गिरा । व्रतानि तिनां पञ्च तदात्तानुदचारयत् ॥१२२॥ रसिका रसिकीभूय ते चाप्युदचरंस्तराम् । मुखैः स्वस्वमुखैः सम्यक् यतः सूत्रार्थवेदकाः ॥ षोडशस्य शतस्यास्मिन्नेकपश्चाशवत्सरे । माघश्वेतद्वितीयायां दीक्षतेषां शुभाभवत् ।।१२४॥ तुतुषुस्ते तदात्यन्तमुच्चर्य व्रतपञ्चकम् । मेनिरे मनसा चैवमद्य धन्यतमा क्यम् ॥ १२५ ॥ विजयसेनसूरीणां विनेयत्वाज्ञयात्मनः। प्रदीक्ष्य प्राचलच शिष्यान् शेषविजयवाचकः ॥१२६॥ प्रतिग्राम प्रतिद्रङ्ग विहरन् सह तच्छिया । श्रीगृहाहम्मदावादद्रङ्ग स पाप सोत्सवः ॥१२७॥
१०९-तपःश्रिया, यशःश्रिया । १२४-एतेषां नाथ १ सुरताण २ केशव ३ कर्मचन्दानां ।।
१२७-तेषां चतुर्णी नवीनाशिष्यानां नाथ ? सुरताण २ केशव ३ कर्मचन्द ४ नाम्नां श्रीः शोभा तच्छ्रीः तया सह सार्धम् ।
Ahol Shrutgyanam