________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम्
वरयात्रा ययोरेवमासन्नवनवोत्सवाः । कथं व्याख्यान्ति तान् दक्षाः स्तोतुमिन्द्रो न यानलम् || श्राद्धैर्निर्वाश्यमानानां विचित्राणां दिने दिने । तदीयवरयात्राणां वारानन्ये न लेभिरे ॥९१॥ श्राद्धानामतिबाहुल्यात् रागस्याधिक्यतस्तयोः ।
४७
सामीप्यात्सन्मुहूर्तस्य दिनानां च तनुत्वतः ॥९२॥ युग्मम् ॥ श्रीमन्मेतद्रङ्गाद् (पाठा० - श्रीमन्मेडताद्रङ्गाद्) बहिराराम उत्तमे ।
दीक्षायै मण्डपं दीव्यं श्रीनाथः सममण्डयत् ॥९३॥ व्यराजत्तोरणैस्तुङ्गैर्मण्डपस्तत्र मण्डितः । तोरणीकृतसच्छुण्डैः सम्मुखीनैर्गजैरिव ॥९४॥ वातप्रेरितसच्छ्रेयस्कारिकारस्कर छदैः । कर्णावलम्वितश्वेतस्फुरच्चञ्चुरचामरैः ॥ ९५ ॥ वस्त्रैस्तत्र सदुल्लोच आसील्लोचनहर्षदः । आकृष्टैर्नभसोदभ्रसन्ध्याभ्राणां दलैरिव ॥९६॥ सर्वतस्तत्र सन्मुक्तास्त्रजो रेजुः प्रलम्बिता: । कृत्वैकत्रांशुसर्वस्वं चन्द्रो न्यास्यकरोत् किमु || अस्मिन् समभवन काले यावतोऽथमहाजनाः । निमन्त्र्य तावतः सर्वान प्रचुरादरपूर्वकम् ||१८| न सभोजनमीतं सभोजनमभोजयत् । ब्रुवन यथोचितं भक्त्या खादत पिवतां क्रियाम् ॥ दीक्षायाः सुदिनस्यादौ दिने दीनमना मुदा ।
नालिकेराण्यदात् पाणौ तेषां च चरणोत्सुकः ॥ १०१ ॥ त्रिभिर्विशेषकम् । अथ प्रभाते श्रीनाथः १ सुरताण २ सहोदरः । केशवः ३ कर्मचन्द्र नाथपुत्रौ चतुर्नराः ॥ कम्भोष्णीषमुख्यानि वासांसि विविधानि हि ।
हारप्रालम्बिकादीनि भूषणानि च पर्यधुः ॥ १०२ ॥ युग्मम् ॥ अवतंसांस्तथा मौलीन मौलौ तेऽतिमनोहरान् । न्यवनन्त नितान्तश्री शोभिता अच्युता इव ॥ निरक्रामस्ततोऽगाराद् ग्रहीतुमनगारताम् । समारुह्य विमानश्रीभासुराः शिविकाः शुभाः ॥
९२ - तयोः केशव - कपूरचन्दयोः । इमा: तदीयाः, ताश्च ता वरयात्राश्च तदीयवरयात्रास्तासां तनुत्वतः अल्पत्वात् । स्तोकं क्षुल्लं तुच्छल्पं दुभ्राणुतलिनानि च । तनु क्षुद्र कृशमिति हैम: । १०२ - अर्थत्यानन्तर्ये प्रभाते । चत्वारो नराः चतुर्नराः कर्तृपदं । हि निश्चितं । विविधानि कौसुंभोष्णीषं कुसुम्भेन रक्तं उष्णीषं मुर्ध्ववेष्टनं पावडी इति भाषाप्रसिद्धं मुख्यं येषु तानि कौ - भोष्णीषमुख्यानि वासांसि वस्त्राणि पर्यधुः परिहितवन्तः । च पुनः हारप्रालम्बिकादीनि भूषणानि - अलङ्कारान् पर्यधुः । तत्र हाराश्च शतलता अष्टाधिकसहस्रलतादयो अनेकप्रकाराः । प्रालम्बिकाच काण्ठला १ लहकउ २ टङ्कावाले ३ माला ४ चम्पकली ५ चउकी ६ इत्यादि लोकभाषाप्रसिद्धविविधकण्ठाभरणविशेषा आदिर्वेषां तानि हारप्रालम्बिकादीनि । चतुर्नराः के इत्याहश्रीनाथः १ सुरताणः सहोदरो भ्राता, नाथस्य महीयान् भ्राता इत्यर्थः । केशवः कर्मचन्द्रश्च नाथपुत्र नाथस्य सुतौ । एते चत्वारो नरा इत्यर्थः ।
Aho! Shrutgyanam