________________
१८ श्रीवल्लभोपाध्यायविरचितं
[तृतीयः ततः सूरीश्वरश्चित्ते विचिन्त्यैवं तमब्रवीत् । सर्वविश्वम्भराधीशशिरचूडामणीयितम् ॥९॥ विश्वम्भरायां सर्वषु तव देशेषु सर्वदा । श्रीमत्पर्युषणापर्वाष्टाहिकायां महीपते ॥१९॥ मवर्तनममारेश्च बन्दिलोकस्य मोचनम् । विधेहीति ततः साहिरिति चित्ते चमत्कृतः ॥१०॥ अहो निर्लोभतेतस्य शान्तता च दयालुता। अकिञ्चनोऽपि किञ्चिन्न मामयाचीद् धनादि यत् ॥ श्रीसाहिराह चत्वारो दिवसा अधिका मम । उपरिष्टाचदुक्तस्य भवन्तु सुकृतश्रियै ॥१०२॥ हृद्यं सद्य इति प्रोद्य साहिरुत्साहपूरितः। द्वादशदिवसामारि-फुरमानानि षट् तदा ॥१०॥ काश्चनरचनायुभि स्वीयनामाङ्कितानि च । त्वरित लेखयित्वैव प्रददौ सद्गुरोः करे ॥१०४|| स्वीयसाधितदेशेषु सर्वेषु वसुधातले । श्रावणवदिपक्षस्य प्रारभ्य दशमीदिनात् ॥१०॥ मासि भाद्रपदे शुक्लषष्ठी यावन्न कश्चन । जीवव्यापादनं कुर्यादिति तेषु व्यलेखयत् ॥१०॥ एषां व्यक्ति पुनश्चैवं शृण्वन्तु श्रावका इमाम् । पूर्वं गूर्जरदेशस्य, द्वितीयं मालवस्य हि ॥१०७॥ तृतीयमजमेरस्य, फरमानं मनोहरम् । दिल्लीफत्तेपुराख्यस्य, देशस्य तु चतुर्थकम् ॥१०८] लाहोरमुलतानाख्यदेशस्य खलु पश्चमम् । एतानि पञ्चदेशेषु, पञ्चसु प्रेषणाय हि ॥१०९॥ देशपञ्चकसम्बन्धि षष्ठं श्रेष्ठावलोकनम् । सकाशे सुरिराजस्य रक्षणाय चिराय हि ॥११०॥
-चतुर्भिः कलापकम् । तत्तद्देशेषु पञ्चानां तेषां द्राक प्रेषणेन च । अमारिपटहोद्घोषमेघोऽवर्षतरां वरः ॥१११॥ अज्ञायमाननामातः कृपावल्ली महीतले । आर्यांनार्यकुलोल्लासिमण्डपेष्वैधताचिरात् ।। मोचनं बन्दिजन्तूनामङ्गीकृत्य गुरूदितम् । श्रीसाहिः मूरिराजस्य पादुत्थाय हर्षतः ॥ तदैवानेकगव्यूतमिते डम्बरनामके । महासरसि गत्वात्मशस्तहस्तेन धर्मधीः ॥११॥ देशान्तरीयसल्लोक ढौकितान् पक्षिणोधनान् । कारागारस्थलोकांश्च मुमोच वचने दृढः॥११॥
-त्रिभिर्विशेषेकम् । एवं चानेकशः श्रीमत्साहेमिलनतो गुरुः । चैत्योपाश्रयरक्षायै फुरमानान्यकारयत् ॥११॥ तेषां विधापनादासीत्सवचनप्रभावना । तदुत्पन्नश्च यो लाभः स्तोतुं शक्नोति तं चकः॥११७॥ तस्मिन् क्षणे सदारङ्गश्राद्धस्तद्गुणरञ्जितः। मेडतीयो ददौ दानमीदृशं यस्य दर्शनात् ।।१२८॥ द्विपञ्चाशत्तुरङ्गान् सन्मूर्तिमद्धस्तिनं नवम् । वस्त्रप्रभृतिवस्तूनि बहूनि बहुशा ददौ ॥११९॥ दिल्लीदेशे समस्तानां श्राद्धानां श्रद्धयान्वितः। द्विसेरपमितां खण्डलम्भनीं च गृहं प्रति ॥१२०॥ दिव्यावदाताः श्रीसूरेरीदृशाः सन्त्यनेकया । ग्रन्थविस्तरभीत्या तान् नेहावीचं यतोऽलसः॥ मित्यर्थः । अत्र वकारोऽव्ययं पादपूरणे, अन्ययानामनेकार्थत्वात् । यथा भवान् सुकृतार्थः पुण्यार्थी मां प्रतिबोध्य कृतार्थः तथा अहमपि भवदुचितं भवन्मार्गितं कृत्वा सुकृतार्थः कृतार्थश्च भवानीत्याभिप्रायः ।
Ahol Shrutgyanam