________________
सगः ]
विजयदेवसूरि-माहात्म्यम् स जग्राहाग्रहात्पुस्तं तस्यानुग्रहहेतवे । नीरागोऽपि निरीहोऽपि धर्मलाभाय भूयसे ॥४१॥ ततः मूरिः समादाय तदा तच्छस्तपुस्तकम् । आगरानगरेऽमुश्चच्छाखकोशतयालयात् ॥८२।। साधिकमहरं यावत्तत्रैकत्रोपविश्य च । गोष्टी धर्मस्य तौ कृत्वा मिथस्तुतुषतुस्तराम् ॥ ८३॥ श्रीसाहिसमनुज्ञातस्ततः मूरिः समाययौ । उपाश्रये सहानेकलोकैराडम्बरोत्सवैः ॥ ८४ ॥ ततश्च सकले लोके जज्ञे प्रवचनोन्नतिः। यत्स्यात्स्फातिमदानन्दि सतां चानुपदं महः ॥८॥ तस्मिन्वर्षे चतुर्मासीकरणानन्तरं मुदा । आगरानगरात्सोरीपुरेऽगात् मूरिरुत्तमः ॥८६॥ नेमिनाथजिनेन्द्रस्य यात्रया तत्र पूतया । साधुश्राद्धैः सहानेकैः पवित्रात्माथ सोऽभवत् ॥८७॥ तत्र श्रीनेमिनाथस्य प्रतिमाद्वितयं तदा । तत्कालनिर्मितश्रीमन्नेम्यहत्पादुकायुतम् ॥८॥ प्रत्यतिष्ठत स सूरिश्च श्रेष्ठो ज्येष्ठप्रतिष्ठया। श्रीसङ्कविहितानन्तगीतमानादिकोत्सवैः ॥ आगरानगरे स्वर्णरङ्कादिव्ययतस्ततः । न कदापि पुरैतागजाताज्जाग्रन्महोत्सवात् ॥९॥ श्रीमानसिंह-कल्याणमल्लकारितमद्भुतम् । स चिन्तामणिपार्थादेः प्रत्यस्थात्पतिमोचयम्॥११॥ प्रादुरासीत्ततस्तत्र तत्तीर्थ भुवि विश्रुतम् । जाग्रत्तभावं सर्वषां मनोवाञ्छितदानतः ॥१२॥ ततः पुनरपि श्रीमत्फत्तेपुरपुरे वरे । समागत्यामीलप्रीत्या साहिना सह सद्गः ॥९३॥ तस्मिन्नवसरे यावदेकमहरमादरात् । धर्मवातौ विधायैवं श्रीसाहिस्तमभाषत ॥९४॥ द्रष्टुं त्वद्वदनाम्भोजमत्युत्कण्ठितमानसः । दूरदेशात् समाहूय जातोऽहं धर्मतत्परः ॥१५॥ यन्मदीयं प्रदत्तं न गृह्णासि किमपि प्रभो । मच्छकाशाच तेन त्वमुचितं प्रार्थयाधुना ॥९॥ सुकृतार्थः कृतार्थश्च भवानिव भवानि व । सर्वथा न वृथा मूरे यतस्वात्र यथा तथा ॥९७||
८५-अत्र स्फातिरयं शब्दः दन्त्यपवर्गाद्वितीयद्वितीयस्वरादिः स्फायै वृद्धौ भ्वादिरात्मनेपदी । अस्मात् रफायः स्फी वा इति सूत्रेण क्तयोः परतः स्फी इत्ययं दन्त्यपवद्वितीयचतुर्थस्वरोपेत आदेशो विकल्पेन भवेत् । स्त्रियां क्तिरिति तिप्रत्यये तु निषेधस्तेन द्वितीयस्वरादि. रेव । अथ स्फात्तिर्वृद्धौ इति हेमकोशे ।
९०-९१-ततः श्री सोरीपुरे श्री नेमिनाथतीर्थङ्करस्य यात्रा नवीनप्रतिमा-पादुकानां प्रतिष्ठाकरणात् । स श्री हीरविजयसूरिः श्रीचिन्तामणिपार्थादेः प्रतिमोच्चयं प्रतिमासमूहं प्रत्यस्थात् प्रत्यतिष्ठत इत्यर्थः। कस्मात् ? जाग्रन्महोत्सवात् । कथं भूतात् पुरा पूर्व कदापि न एताद्ग जातात् तादृग् जात इतीदं सुपेति समासत्वात् समासान्तमेकपदम् । कस्माजाप्रन्महोत्सवात स्वर्णटङ्कादिव्ययतः स्वर्णटङ्कादिव्ययः तस्मात् ।
९७-हे सूरे यथा येन प्रकारेण भवानिव भवद्वत् सुकृतार्थः सुकृतं पुण्यमेवार्थः प्रयोजनं यस्य स तथा । च: समुच्चये कृतार्थः कृतः सर्वप्रयोजनो भवानि व तथा सेन प्रकारेण यतस्व यतनं कुरु । अत्र अस्मिन् वाक्ये अस्यां विज्ञप्तौ सर्वथा सर्वैः प्रकारैर्न वृथा न कूट
Ahol Shrutgyanam