________________ परिशिष्टम् तथा स्तम्भतीर्थवासिना सा० देवचन्द्रेण देवीभूय स्वे वे भायें सं० 1673 वर्षात्पनोपाधिमतमोचनाय भृशं प्रोक्तमपि तन्मतं न त्यजतस्तदान्यदा तदीयश्राद्धजेमनवारायां जायमानायां तेन देवेन तन्त्र पाषाणवृष्टिस्तथा कृता यथा भुक्तिं त्यक्त्वा सर्वेषु नष्टेषु तं देवं प्रकटीभूत ते प्रोचतुस्त्वं कोऽसि कथं चावां भापयसि ? इति प्रोक्ते सोऽवोचत्-अहं भवद्भत्ता देवचन्द्रो देवीभूतोऽन्यैः सप्तभिर्देवैः सह श्रीविजयदेवसूरीणां सांनिध्य कुर्वाणोऽस्मीति तेन भवतीभ्यामपि स एव गुरुरङ्गीकार्यों येन मद्भयं न भवतीति प्रोक्ते ते अपि श्रीगुरुभक्ते जाते इत्येक देवसांनिध्यम् 1 / तथाऽनयैव रीत्या घोघाख्यबन्दिरवासी सा० सोमजीनामा स्वं कुटुम्नं प्रापराङ्मुखमपि देवीभूय प्रतिबोध्य च श्रीविजयदेवसूरिभक्तं कृतवानिति द्वितीयम् 2 / तथा श्रीविजयदेवसूरिषु मण्डपाचलं प्रतिचलत्सु सेहरषीनामग्रामस्वामिपुत्रः कमाख्यः परमारः। स च पूर्व भूतातत्वेन लोकान् मारयन् पित्रा निगडितस्तदा गुरुवासक्षेपेणैव सजीभूत इति महदाश्व-' यजातमिति तृतीयम् 3 / तथा राजनगरवासी वणिकपुत्रः सप्त वर्षाणि यावर अथिलोऽभूत् तत्पित्रादिभिः श्रीविजयदेवसूरिकरक्षेपः कारितस्तत्कालमेव सज्जो जातश्चेति महद्भुतमिति चतुर्थम् 4 तथा मेडतावासी षीमसरागोत्रीयः सा थानाख्यो नवमासान यावत्क्षेत्रपालगृहीतोऽन्यदा श्रीविजयदेवसूरिवासक्षेपेण सजोऽजनि, इति सर्वलोकप्रसिद्धमिति पञ्चमम् 5 / तथा मरुदेशे गूर्जरदेशे दुर्भिक्षे महति सत्यपि श्रीगुरुषु समागतेषु महत् सुभिक्षं जातमित्यादि श्रीविजयदेवसूरीणां देवसांनिध्यं बहुशो दृष्टमिति // ladis... - Ahol Shrutgyanam