________________ विजयदेवभूरि-माहात्म्यम् 1684 वर्षे पुनर्जयमल्लमन्त्रिणा सहस्रशो रूप्यकव्ययेन विजयसिंहसूरीणां गच्छानुज्ञानन्दि कारिता / सतो मेडतानगरे प्रतिष्ठात्रयं विधाय विन्ध्यपुरे चतुर्मासीस्थितान् गुरून् ज्ञात्वा गच्छीयगीतार्थरजितेन राणाश्रीजगतसिंहजीकेन श्रीवरकाणके पौषदशम्यां समागतानां लोकानां शुल्कमोचनं तदाघाटरोपपूर्व ताम्रपत्रेणोत्कीर्य श्रीगुरूणां पुरः प्राभृतीकृतं तत्कदाप्यभूतपूर्व सर्वेषामद्भुतकृत् सजातम् / ततो राणपुरादिषु तीर्थयात्रां कृत्वा झालाश्रीकल्याणजीकेन संमुखमागत्याकारिताः श्रीमेदपाटदेशं पवित्रयन्तः प्रथम षमणारग्रामे प्रतिष्ठाद्वयं, ततो देवकुलपाटके प्रतिष्ठामेकां, ततो नाहीमामे अघोटानगरे चेति प्रतिष्ठापञ्चककरणपूर्वकं श्रीउदयपुरे चतुमौसी चक्रुः / ततस्तत्पारणके गूर्जरत्रां प्रचिचिचिलिषून दलवादलमहलमध्यस्थितान् श्रीगुरून् श्रीजगसिंहजीसज्ञको राणकोऽपि नन्तुमागतश्चिरं गुरुमुखचन्द्रे चकोरीकृतचक्षुस्तद्देशनाऽसमसुधां पीत्वा प्रीतः प्रकामं सत्कारसन्मानादि दत्त्वा गुरुपुरश्चतुरो जल्पान् प्रपन्नवान् / तथाहिअधप्रभृति पिछोलके उदयसागरे च तटाके मीनजालानि निषिध्यति 1, राज्याभिषेकदिने गुरुवारे जीवामारि कार्या 2, स्वजन्ममासे भाद्रपदाभिधे जीवहिंसा न कार्या 3, मचिंददुर्गे कुम्भलविहारे जीर्णोद्धारः कार्यः ४-इति जल्पचतुष्टयीग्रहणाभिप्रहवन्तं भूमिकान्तं वीक्ष्य सकला अपि लोका भृशमाश्चर्यभाजोऽहो ! गुरूणां कोऽपि लोकोत्तरो महिमातिशय इत्यादि. वर्णनपरा जाताः / किंबहुना श्रीकुमारपालभूपालेन श्रीहेमसूरय इव श्रीराणाजीकेन श्रीगुरवो बहु मेनिरे-इत्यादयः कियन्तोऽवदाता लिख्यन्ते / यतस्तपसा साक्षाद्धन्यानगारा इव, सौभाग्येनाभिनववसुदेवावतारा इव, ध्यानमौनक्रियाकष्ठानुष्ठानादिना श्रीभद्रबाहुस्वामिन इव, निर्विकृतिविकृतित्यागेन प्रायो भक्तजनगृहाहारत्यागेन च श्रीमानदेवसूरय इव श्रीविजयदेवसूरयः सर्या इव भरतभूमिपद्मिनी प्रतिबोधयन्तो मालवमण्डले उज्जयिन्यादौ दक्षिणदेशे च बीजापुर-बहनिपुरादौ कच्छदेशे च भुजनगरादौ मरुदेशे च जावालपुर-मैदिनीपुर-धंघाणीप्रामादौ जीर्णोद्धारकारापणपूर्वकमनेकशताहत्प्रतिमाः प्रतिष्ठयन्तोऽनेकपण्डितपदानि पाठकपदानि स्थापयन्तो दर्शनादेव होन्दूतुरुषकादीनामपि चमत्कारं कुर्वन्तो जीवहिंसादिनिषेधनियमांश्च कारयन्त: सिरिविजयसीहसूरिष्पमुहेहिं णेगसाहुक्ग्गेहिं / / परिकलिआ पुहविअले, विहरिता दितु मे भदं // 2 // श्रीविजयसिंहसरि-प्रभृत्यनेकशतसाधुभिः परिवृताश्चिरं पृथ्व्यां विहरन्तो 'भद्रं दिशन्तु' कल्याणं कुर्वन्त्विति गाथार्थः // 2 // इति गाथा द्वयं पूर्वपट्टावल्यां प्रयोज्यम् / तपगणपतिगुणपद्धतिरेषा गुणविजयवाचकलि लिखे / गन्धारबन्दिरीयनावकसा० मालजीतुट्यै // 1 // इति गुर्वावली प्राचीनगुर्वावल्याः पुरोऽनुसन्धीय सुधीभिर्वाचनीया // श्रीमङ्गलमस्तु / / Ahol Shrutgyanam