________________ सगैः विझयदेवसूरि-माहारम्यम् सोऽप्यूचे युवयो हिं देवो देवचन्द्रकः / भवत्योः प्रतिवोधाय दृषदृष्टिर्मया कृता // 169 / / अहं श्रीविजयदेवमरिसानिध्यमन्वहम् / कुर्वाणोऽस्मि सुरैः सप्तदशभिश्वापरः सह // 17 // इत्युक्ते तेन ते जाते सद्यः सद्धर्मनिश्रिते / मुक्त्वोपाधिमतं को हि सत्याज्ये तैलमीहते // 171 इत्येकं देवसानिध्यं. द्वितीयं शणुताधुना / श्रीमण्डपाचलं दुर्ग चलति प्रति सद्गुरौ // 172 // मागें सेहरषीग्रामस्वामिपुत्रः कमाभिधः / परमारः स भूत्तात इत्यभूत्परमारकः // 17 // मारयन् स बहूँल्लोकान् पित्रा निगडितस्ततः / तस्मिन्नवसरे तत्र मूरिसिंहस्समागतः // 17 // महान्तमागतं मत्वा वासक्षेपोऽस्य कारितः / सन्जोभूत्तत्क्षणात्साऽपि जातं तच्चित्रकृत्सताम् // द्वितीयं देवसान्निध्यं. प्रोच्यतेऽथ तृतीयकम् / श्रीराजनगरस्थायी कोऽप्यस्ति वणिजः सुतः / / सप्तवर्षाणि यावत् स पहिलोऽभूदभाग्यतः / तत्रागाचाष्टमे वर्षे तद्भाग्यात्सद्गुरूत्तमः // 177 // पित्रादिभिस्तदाऽकारि करन्यासोऽस्य मस्तके / तत्कालं सोऽपि सज्जोऽभूत्सर्वो लोकश्चमत्कृतः। चतुर्थं देवसान्निध्यमथो शृणुत सज्जनाः / मेडताद्रङ्गवास्तव्यः श्राद्धः खीमसरान्वयी // 179 / / नवमासावधिस्थानाभिधो दुष्कर्म योगतः / गृहीतः क्षेत्रपालेन भृशं दुःखाकुलोऽभवत् // 180 // तत्रागादन्यदा भाग्याद्विजयदेवमरिराट् / वासक्षेपेण तस्याशु क्षेत्रपालः प्रणष्टवान् / / 181 // नीरोगता तदीयेऽङ्गे भूतले च चमत्कृतिः / वार्ता च सकले संघे जाताहो महिमा गुरोः॥१८२ अथातः प्रोच्यते देवसानिध्यं पञ्चमं प्रभोः। अस्ति गूर्जरदेशान्तः पेटलादाभिवं पुरम् // 18 // तत्रासीदधिपः क्रूरः स्वभावादेव दुष्टहत् / व्युग्राहितो विशेषेण देषिभिर्वेषधारिभिः // 18 // वणिम्भिः प्रत्यनीकैच द्रव्यलोभेन लोभितः / रुरोध निर्विरोधं तं तदा तत्रागतं गुरुम्॥१८५॥ गोपुरान्तवैदिकायां विमुच्य सपरिच्छदम् / रक्षायै मानुषान्मुक्त्वा स्वयं स्वावासमाविशत् // अथ सायं गुरुस्तत्र चिन्तयामास चेतसि / इह नः शयनं युक्तं नक्तं नैवेतरैः सह // 187 // ध्यात्वेति तत्र वान्तर्गत्वैकस्य तरोस्तले / सुष्पाप सपरीवारो वार्यमाणो जनैपनैः // 18 // अथ तत्र यज्जातं तदाहप्रतोलीपावेगेहान्तर्वहिर्दारुभरेऽलगत् / तद्ज्वालाभिः करालाभिः प्रतोली सहसाऽ पतत् // तया पतन्त्या तत्राधः सुप्ता ये रक्षकादयः / तत्क्षणात्ते क्षयं प्राप्ता अहो दुष्कर्मणां गतिः॥१९० गुरुं कुशलिनं दृष्ट्वा सुखसुप्तं तरोस्तले / वर्णयन्ति स्म राजाधा अहो ज्ञानी गुरुर्महान् // 19 // १८७-पूर्वार्ध सुबोधं / इहेति अत्र प्रतोल्यधः सुस्थानवेदिकायां इतरैर्नीचैस्तुरुष्कादिभिः सार्थ नक्तं रात्रौ नोऽस्माकं शयनं नैव युक्तं नोचितमिति / १८८-गुरुर्षनर्जनसैराराकैरन्यैरपि तत्रागतैः पथिकैः स्त्रीनरैर्मा याहीति वार्यमाणोऽपितरोराले गत्वा पौरूषीविधिपूर्व सुष्वाप शेते स्मेति / Ahol Shrutgyanam