________________ [ 8 ] स्वस्ति श्रीमहाराजाधिराज महाराज श्रीमदनूपसिंहप्रभुवर्याणां श्रीमज्जिनदेवभजनावाप्तसकलजिनेन्द्र ज्ञानवैभवेषु तृणीकृतजगत्सु सकल जैनाभिवंदितचरणेषु श्रीपूज्यजिनचन्द्रसूरेषु वंदनाततिनिवेदकमदः पत्रं विशेषस्तु पूर्व सर्वदेव भवदीयः कश्चित् यतिवरः अस्माकं सार्थे स्थितः इदानीमत्र भवदीयः कोपि नास्ति भवद्भिरपि तूष्णी स्थितमस्ति तत्किमिति अतः परं एकः उपाध्यायः पांचाख्यः अथवा जयतसी एतयो मध्ये यः कश्चिदायाति सत्वरं प्रेषणीयः चातुर्मास्यं अनागत्य करोति तथा विधेयं अस्मिन्नर्थे विलंबो न विधेयः किमधिक मिती पोष शु०८ श्री लक्ष्मीनारायणजी स्वस्ति श्री मन्महाराजाधिराज महाराज श्रीमदनूपसिंह प्रभुवर्याणां श्रीमत्सकल कार्य करण निपुणता पराङ्मुख वैराग्यपवमान संदोह वशंवद वशीकार संज्ञ वैराग्य भोग्य कैवल्येषु विषम विषय दोष दर्शन दूपित प्रपंच रचना चुलुकी करण कुम्भ संभव विभवेषु समस्त विद्या विद्योतमान विग्रहेषु श्री मद्भट्टारक जिनचन्द्रसूरिषु वन्दनाप्रणाम सूचकोयं जांबिकः। शमिह श्री रमेश करुणा कटाक्ष सन्दोहैः विशेषस्तु माला श्रीमद्भिः प्रेषिता सा अस्मत्करगता समजनि अन्यदपि यत्समीचीनं वस्तु अस्मद् योग्यं भवति चेदवश्यं प्रेषणीय। अन्यच्च श्रीमतां प्रावरणार्थं वस्त्रं दापितमस्ति तग्राह्य किं च इन्द्रभाण मुद्दिश्य भवद्विषयिकोदताः लिखिताः संति सोप्य स्मत्पत्रानुसारेण श्रीमतां समाधानं करिष्यति / श्रीमतां महत्वं मानोन्नतिं च विधास्यति / तथा च श्रीमदीयः कश्चित्कार्य विशेषो ज्ञाप्यः। श्रा०व०३ महाराजा सुजाणसिंहजी भी श्रीपूज्य श्रीजिनसुखसूरिजी व तत्कालीन विद्वान यतिवयों को बड़ी श्रद्धासे देखते थे। हमारे संग्रहमें आपके श्री जिनसुखसूरिजी को दिये हुए दो पत्र हैं जिनकी नकल नीचे दी जा रही है :---- श्री लक्ष्मीनारायणो जयति श्रीमत्तपः शाल विशाल वाचः सौजन्य धन्य द्युति कीतिभाजः। प्रताप संतापितपो विधाता राजन्ति राजद्यति वृन्द राजाः ॥शा षड्भारती भृजिनसौख्यसूरि नामान अत्यद्भुत शोभमानाः। श्री धर्मसिंहै परितः पुराण मुनीशमुख्यैः प्रसरन्मनीषैः / / 2 / / श्री राजसागरै विद्वद्धंस सेवित सागरैः / अन्यैः सत्कविभिः शास्त्र कला संकुल कोविदः // 3 // त्रिभिर्विशेषकम् / तदुचितं प्रहित छदनमुदा मरु महीश सुजाणनरेश्वरैः / सपरिवार सुमन्त्रि सुतैर्हितत्प्रणति संततयस्त्ववधार्यताम् ||4|| आर्या :-सदा स्वीय सुसेवकानां कार्यों परिष्टात्प्रचुरानुकम्पा / संपालनीया सरसाभृशं मुच्छश्व हृदि स्नेह सुधा प्रपूर्णः / / 5 / / कुशल मत्र सदवहि वर्तते शुभवतां भवता मनुकम्पया। मनसि कामयते भवतां हितं भविक मेव सुसेवक सज्जनः / / 6 / / "Aho Shrut Gyanam"