________________
आगमपरिच्छेदः ।
२८५
कृतमित्याह । उत्सर्गिकैनिजबुद्ध्यनन्यथाक्तैः स्वल्पपदैः स्तोका क्षरैर्गुम्फितम् । किमर्थमित्याह । संसारेत्यादि । उत्तमब्राह्मणानां भवविमोक्षायेति ॥ १६७ ॥
श्री कृष्णर्षिमच्छ गच्छ मुकुट श्रीमन्महेन्द्र प्रभोः शिष्यश्रीजयसिंहमूरिरखिलप्रामाणिकग्रामणोः । एतां निर्मितवान् परोपकतये श्रीन्यायमाराश्रितां स्पष्टायी विकृतिं कृपापरवशै: सैषा विशोध्या बुधैः ॥ टोकेयं न्यायमारस्य मनस्तात्पर्य दीपिका ।
मनीषिणां मन:सौधे सर्वदापि प्रकाशताम् ॥ इति श्रीकृष्णर्षिगच्छमण्डनीमहेन्द्रसूरिशिष्ययोजयसिंहसूरिविरचितायां न्यायतात्पर्य्यदौपिकाभिधानायां श्रीन्यायसारटीकायामागमपरिच्छेद
स्तार्तीयिकः सम्पूर्णः ॥
Aho! Shrutgyanam