SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । @tow सम्यगविनाभावेन परोक्षानुभवसाधनमनुमानम् । 1 स्वभावत: साध्येन साधनस्य व्याप्तिरविनाभावः । स द्विविधः । अन्वयव्यतिरेकभेदात् । तत्र साध्यसामान्येन साधनसामान्यस्य व्याप्तिरन्वयः । साधनसामान्याभावेन साध्यसामान्याभावस्य व्याप्तिर्व्यतिरेकः । साधनं लिङ्गम् । तद्दिविधम् । दृष्टं सामान्यतोदृष्टञ्चेति । तत्र प्रत्यक्षयोग्यार्थीनुमापकं दृष्टम् । यथा धूमोऽग्नेरिति । स्वभावविप्रकृष्टार्थानुमापकं सामान्यतोदृष्टम् । यथा रूपादिज्ञानञ्चक्षुरादेरिति । 1 तत् पुनः द्विविधम् । स्वार्थं परार्थं चेति । परोपदेशानपेक्षं खार्थम् । परोपदेशापेक्षं परार्थमिति परोपदेशस्तु पञ्चावयववाक्यम् । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः । तत्र प्रतिपिपादयिषया पक्षवचनं प्रतिज्ञा यथा नित्यः शब्द इति । साधनत्वख्यापकं लिङ्गवचनं हेतुर्यथा तौत्रादिधम्मोपेतत्वादिति । स विविधः । अन्वयव्यतिरेकी केवलान्वयी केवल Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy