________________
२२४
न्यायतात्पर्य दीपिका।
त्वादिहेतुना प्रत्यक्षादिष्वनन्तर्भवदुपमानमिति पृथक् प्रामाण्यमास्तिघ्नत। ततः कथमस्य शब्देऽन्तर्भाव इति भावः । अत्र प्रयोगः । गवयमादृश्य विषयं गोविज्ञानं पृथक्प्रमाणं प्रत्यक्षाद्यविषयत्वादापत्त्यादिसाध्यार्थवत्। व्यतिरेके घटज्ञानवञ्चेति ॥२२॥ परिहरति ।
न। तस्य स्मृतित्वादिति ॥ अनेन सदृशी मदीया गौरिति परेण यदुपमानमूचे तदुपमानं न भवति । किन्तु स्मरणं गवयदर्शनादनेन गवयेन सदृशी मामिका गेहानुभूता गौरिति ज्ञानस्य स्मृतिरूपत्वात् ॥ २३ ॥ स्मरणमेव समर्थयते ।
पूर्वमेव हि सादृश्यविशिष्ट उपलब्धो गोपिण्डः । कस्मादुपलश्चियोग्यत्वादयोग्य त्वे वा न कदाचिदुपलभ्येतादृष्टवदिति ॥
भूयोऽवयवसामान्ययोग: सादृश्यम् । तच्च गवि गवयेऽप्येकमेव । तेन सादृश्य न विशिष्टो गोपिण्डः पूर्वमेवाश्रय ग्रहणकाले गृहीतः। कस्मादिति परप्रश्नायङ्का सादृश्य विशिष्टगोपिण्डोपलम्भे हेतुः । उपलब्धियोग्यत्वादिन्द्रियग्रहणयोग्यत्वादित्यर्थः । अयं भावः । सादृश्यविशिष्टो गोपिण्डः किमुपलब्धेर्योग्योऽयोग्यो वा । योग्यत्वे उपलब्धियोग्यत्वादेव प्रागप्युपलब्धस्त विशिष्टो गोपिण्डः । प्रयोगयात्र गोनिष्ठं गवय सादृश्यमनुपलब्धगवयोऽपि गोत्वोपलम्भकाले लभते। तदानी इन्द्रियसंबद्दत्वे सत्यपालम्भयोग्यत्वाहीत्ववदिति । अयोग्यत्वे उपलब्धानुचितत्वेऽदृष्टवधर्माधर्मादिवत्र कर्हि चिदुपलभ्येत । उपलभ्यते चावश्यम् । तस्मात् स प्रागप्युपलब्ध एवेति
Aho! Shrutgyanam