________________
१८४
न्यायतात्पर्य्यदीपिका।
लम्भः। अत्र तु द्रव्यं गुणव्यतिरिक्त प्रतिज्ञाय भेदेनानुपलम्भ हेतूकुवतः प्रतिज्ञाहे वोविरोधात् प्रतिज्ञाविरोधो नाम निग्रहस्थानं भवति ।
नवयं विरुडो हेत्वाभासो न पुन: प्रतिज्ञाविरोध इति चेत् न। विरुद्धहेत्वाभासे याप्तिस्मरणाहिरोधोऽवधार्यते। अत्र तु प्रतिज्ञाहेतुवचनश्रवणमात्रादेवेति महान् भेदः ॥ २१३ ॥ प्रतिज्ञासंन्यासं लक्षयति ।
पक्षप्रतिषधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यास इति । प्रमाणादिविरुद्धपक्षप्रतिषेधे प्रतिज्ञातार्थस्य योऽपङ्गवः स प्रतिज्ञासंन्यासी भवति । २१४ ॥ एतदुदाहरणमाह।
* अनुष्णोऽयमग्निः कृतकवादित्यस्य प्रतिषेधे वाद्याह । संपश्यध्वमहो मध्यस्थाः साक्षिणो नाहमनुष्णमग्निं ब्रवीमोत्यनुक्कोपालम्भोऽयमित्येतत्तस्य प्रतिज्ञासंन्यासलक्षणं निग्रहस्थानमिति ॥
अग्निरनुषण इति वादिना पक्षे कक्षीकृते स्पर्शन प्रत्यक्षबाधितत्वादयं कालात्ययापदिष्ट इति परेण प्रतिषिद्धे च यदा वादी आत्मप्रत्यायनाथं संपश्यनमहो मध्यस्था इत्यादि वक्ति तदा तस्याग्निरनुषण इति स्वीकृतप्रतिज्ञापह्नवात् प्रतिज्ञासंन्यासो नाम
* 'The Text reuls 'यथानुष्योऽयमम्निरित्यय Line 7).
Sct puge
4
Aho! Shrutgyanam