________________
अनुमानपरिच्छेदः ।
१८३ धूम इति निर्देशो यथा विवादास्पदीभूतं सर्वमनित्यमित्येत. प्रतिज्ञान्तरं निग्रहस्थानं हेवन्तरवदिति || * __प्राक् सव्वं पक्षी कृत्य दृष्टान्ताभावेन परेण प्रतिषेधे कते सति तैत्रिहत्त्यर्थं विमृश्य यत्यक्षान्तरोपादानं विवादास्पदीभूतं सर्वमनित्यमित्येतद्रूपं तत्प्रतिज्ञान्तरं नाम निग्रहस्थानं भवतीति भावः। यथैक हेतूपन्यासे तत्प्रतिषेधे चान्यहेतुमुपन्यस्यतो हेत्वन्तरं निग्रहस्थानं तहदिदमपि।
ननु प्रतिज्ञाहानेः प्रतिज्ञान्तरस्य च को विशेष इति चेत् । उच्यते । प्रतिज्ञाहानो सर्वथा प्रतिज्ञात्वागः प्रतिज्ञान्तरे तु तस्या एव प्रतिज्ञाया विशेषणान्तरेण योजनमित्येकदेशपरावर्ताबानयो. रैक्यं युक्तमिति ॥ २११ ॥ प्रतिज्ञाविरोधमभिधत्ते ।
प्रतिज्ञाहेलोविरोधः प्रतिज्ञाविरोध इति ॥ यत्र प्रतिज्ञा हेतुना विरुध्यते हेतुर्वा प्रतिज्ञया स प्रतिज्ञाविरोधो भवति ॥ २१२ ॥ एनमुदाहरति ।
यथा गुण व्यतिरिक्तं द्रव्यं भेदेनानुपलम्भादिति ॥ यदि द्रव्यं गुण व्यतिरिक्त तदा भेदोपलम्भ एव भवेन्नत्वभेदोप
* The commentator adopted the reuling of the nis rarked C. which has been mentioned in the Foot note of paye 33 ( See page 23, Line 13).
Aho! Shrutgyanam