________________
अनुमानपरिच्छेदः ।
१८३
पृथिव्यादिकं कायं सावयवत्वात् घटवदिति वादिना प्रोक्ते । जातिवाद्याह । पृथिव्यादी कार्यत्व सिद्धार्थ हेतुतयोपन्यस्तं यत् सावयवलं तदभावेऽपि बुद्धौ प्रादिशब्दात् सुखे दुःखे च कार्यत्वं दृष्ट बुयादीनाममूर्तत्वात् कार्यत्वाच्च । ततोऽप्रयोजकोऽयं मावयवत्व हेतुः । पृथिव्यादेः कार्यत्वमिहावित्यपलब्धया प्रतिषेध उप. लश्चिममो भवति ॥ १८८ ॥ परिहरति ।
सपक्षैकदेशस्यापि धूमार्गमकत्वदर्शनादप्रतिषेध इति ॥ हेतुबिधा सर्वपक्षव्यापी सपक्षकदेशवृत्तिश्च । अत्र सपक्षकदेशे वर्तमानो हेतुः सपक्ष कदेश इत्युक्त उपचारात् । यहा मपक्षस्यको देशो यस्यासी सपक्षकदेश इति भिन्नाधिकरणो बहुव्रीहिः । तत: सपक्षकदेशव्यापकस्यापि धूमादेः माधनस्य साध्यगमक. त्वावलोकनादयं भावयवत्वहेतुप्रतिषेधो न भवति । कोऽर्थः । यथा पर्वतोऽयं वह्निमान् धूमवत्त्वान्महानमवदित्यत्र धूमानुमान न खलु धूमवत्त्वं सपक्षभूतं समस्तमपि महानसस्तोममास्तिनुते कि महान मकतिपयानि तथापि वह्निमत्त्वगमकं भवत्येव । तथा भावयवत्वं कार्यत्वेन सपक्षभूत बुद्ध्यादौ च प्रवर्त्तमानमपि पृथिव्यादौ काय्यत्वसाधकं भविष्यति दोषाभावात् । किञ्च यदि सर्वसपक्षव्याप्येव हेतुर्गमकोऽभिलष्येत तदा एकदेशव्यापिनां धूमादिहेतू नामगमकत्वे सति तन्मूलवानुमानोच्छेदोऽनुषज्येत । ततो यथैकदेशव्यापिनो धूमार्गमकत्वं तथा सावयवत्वस्यापि ॥ १८ ॥
Aho! Shrutgyanam