________________
अनुमानपरिच्छेदः।
१८१
ठितत्वात् प्रतिषेध्यस्थ । अथ युगपत्तथापि सव्येतरगोविषाणयोरिव किं कस्य प्रतिषेध्यं प्रतिषेधकञ्च स्यात् । एककालत्वेनाविशेषात् प्रतिषेध्यप्रतिषेधक योश्च भिन्नकालत्वात् । इति प्रतिषेधस्य त्रैकाल्यामि हेतु प्रतिषेधो न स्यादित्यर्थः ॥ १८३ ।।
ननु यद्यपि काल्यापि प्रतिषेधासिद्धिस्तथापि तव हेतुमिद्धिर्नास्तीत्याशङ्कयाह ।
स्ववचनेनैव प्रतिषेधासिद्धौ हेतुमिद्धिरिति सूत्रार्थ इति ॥ पूर्वोक्त युक्त्या त्वदुक्तवचनेनैव त्रैकाल्येऽपि प्रतिषेधानिष्पत्ती हेतुसिर्जाितव । मूत्रार्थ इति। प्रतिषेधानुपपत्तीत्यादि सूत्रस्यायमर्थ इत्यर्थः ॥ १८४ ॥ अविशेषसमां जातिमाह।
एकधर्मोपपत्तेरविशेष सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तरविशेषसम इति ॥
एकस्य कार्यत्वादिलक्षणस्य धम्मस्योपयत्तेघटनातो यदि घटशब्दयोरविशेषस्तौल्यमिथते तदा सर्वभावानां सद्भावस्य सस्वधम्मस्योपपत्तेः सर्वाविशेषेण प्रत्यवस्थानमविशेषसमा जातिभवति ॥ १८५ ॥ एतदेव मूत्र विकृणोति ।
यदि घटशब्दयोरकस्य कार्यत्वस्योपपत्तेरनित्यत्वेनाविशेष इष्यते । तदा सर्वभावानां सद्भावोपपत्तेर विशेषः प्रसज्यत इति ।
प्रारीव व्याख्यातपायमेतत् ॥ १८६ ॥ एतत्यरिहरति ।
Aho! Shrutgyanam