________________
७२
श्री महावीरजिनस्तवः 'चकमिय' इति क्रमणं 'चुचुंधरि सव्वंगं महिलामयदंकणेण कयलेवं । सबटुं (दु) देसु कमणं निद्दिट्ट वीयरागेण ॥१॥' 'मुह' इति उद्घाटनं श्वेते नागोत्तरणं पीते पुटदानं, यदुक्तं-सूतसंहितायाम्-उद्घाटने पुटो नान्यः, क्रामणे कान्तमिच्छति । न शुल्वाद्रञ्जकः कश्चिन्न माक्षीकात् प्रकाशकः ॥शा' इत्यत्राप्युक्तम् ' तारिहिं तारुसुवन्नुसुवन्निई मूओरे न हु बज्झइ अन्नई। कामणवेह उघाडणनाइं दधीकरणु होइ रसराई (?) ॥१॥ इति तृतीयगाथार्थः ॥३॥ अथ निगमयन्नाह -एवं पूर्वप्रकारेण 'वी०' रसेन्द्र :-रसज्ञः, अच्छः, अः अम्लवर्गः, छः क्षारवर्गों मूत्रलवणादिः, 'र' रसवर्गः, एषां त्रयरूपो गणस्तस्यः 'सङ्घ ' समवायम्तेन 'सं०' परिचितः-संस्तुत्य स्तम्भितः. ' भगवान् ' ऐश्वर्यात्पूज्यः ‘पालिक' पादलितो-- रसविद्यासिद्धः सूरिः, तस्य मतेन-अभिप्रायेण, मथितः, अणसेइओ न तरलो न निम्मलो होइ महणारहिओ । सोरणरहिओ पसरइ कामे ओ नेय कमलोहेसु (१)॥१॥ इत्यादियुक्त्या परिकम्मितो, दिशतु क्षयं 'सर्व' दारिद्यरोगजरादीनां । पाठान्तरे-पादलिप्तस्य मत्या मथितः, (इति) चतुर्थगाथार्थः । इत्थं स्तवरूपतया लवतः सितपीतसिद्धिरूपतया । श्रीपादलिप्तरचिते रचिता वीरस्तवे मया वृत्तिः ॥ इति श्रीजिनप्रभसूरिभिः संवत् १३८० वर्ष कृतायाः श्रीवीरस्तववृत्तेः सक्षिप्यावचूरिः । ग्रन्थानम् ९८ ॥
"Aho Shrut Gyanam"