________________
श्री महावीर
,
मलविपलक्षणदोषद्वयवर्जितत्वं उक्तं । सम्प्रति दहनदोषनिरासार्थं विशेषणमाह-' जियकसायं 'ति, जितः - स्वात्मनि निलीनः कृतः कषायस्त्रिफलाख्यो येन स तथा तं । अनेनेदं उक्तं भवति यस्त्रिफलया तस्य शिखिदोषोऽपनीत इति । तथा च रसग्रन्थः - ' मलशिखिविपनामानो रसस्य नैसर्गिकास्त्रयो दोषाः । गृहकन्या हरति मलं त्रिफलाऽग्नि चित्रकस्तु विषम् ||१|| ' इति । 'धोसामि' स्तम्भयिष्यामि, केन कृत्वा ? त्रिसङ्घातेन सिताम्रकं तालकं तारय (?) तेषां त्रयाणां सङ्घातेन योगेनेत्येके । अन्ये तु व्याचक्षते - दुग्धिकादीनां स्वरसं रसमध्ये दद्यात्, औषधानां शुष्कत्वे तु तासां क्वाथं कृत्वा तद्रसं निक्षिपेत् । अत्र च रक्तदुग्धिका सोमवल्लीबहुफलीनां अन्यतमयापि कार्याणि सिद्धयन्ति तथापि तिस्रो ग्राह्या इत्याम्नायः । पुनः कथम्भूतं ? जिनं- पारदं, तीर्णसङ्ग-मृत सप्तगुणसङ्गोत्तीर्ण, अस्य सम्प्रदायो गुरुमुखाच्छ्रोतव्यः । एतावता श्वेत ओलि दर्शिता । अधुना पीतविधिमाह - 'महावीरं' 'म' इति हेममाक्षिकं 'हा' इति हाटकं 'वी' इति कृष्णाभ्रकं 'र' इति रसः तं स्तोष्यामि । शेषा औषधयः समाना एव इति प्रथमगाथार्थः । सुकुमाल ' इति नाइणि, 'धीर' इति नाइ, 'सोमा' इति सोमवल्लीत्रयं सोमा वा कुवी रत्त ' इति रक्तदुग्धिका ' कसिण ' इति कृष्णा बहुफली काश्चनिका ' इति देवदाली 'सि' इति शृङ्गिकविषं 'रि' इति
6
,
पण्डुरा
७०
ܐ
"Aho Shrut Gyanam"