________________
स्तोत्री
४१
नौ-आवयोः, कार्य न सिद्धम् ॥ ८ ॥ इत्यानन्दपुरस्थौ श्रीमन्नाभेयवीरतीर्थपती। स्तुत्वा कौचित् श्राद्धावार्जिजतां दम्पती पुण्यम् ९ अस्मत्पदान्यपदयोर्द्विवचनगर्भस्तवेन नुतिविषयम् । नीतौ जिनाविति मम प्रयच्छतां स्वच्छतां मनसः
इत्यस्मच्छब्दबहुव्रीहिद्विवचनगर्भ ऋषभवीरम्तयः ।। इतिपञ्चमस्तवावचूरिः ॥ ५ ॥ अथ साधारणजिनस्तवःलोकान्तिकनाकिवरा जिनपुरतो
__ मौलिमिलितभूमितलाः। दीक्षासमयसमेता विज्ञप्ति तन्वते मुदिताः ॥१॥
अव०-लोको-ब्रह्मलोकस्तस्यान्ते-समीपे भवा इकण, ब्रह्मलोकवासित्वात् । तन्वते इति वर्तमाननिर्देशस्तत्समयापेक्षः ॥ १ ॥ अशक्तास्मां महाप्रज्ञा-वैभवेनापि केनचित् । स्तुतिपूजे विधातुं ते, न शक्येते कदाचन ॥२॥
अव०-अशक्ता वयं ययोस्ते, प्रज्ञा च वैभवं च, महती ते यस्य तेन, स्तुति० द्वन्द्वः, 'लवक्षर० ।।३।१।१६०। इति; इदंतत्वात् स्तुतिशब्दस्य पूजाशब्दात् प्राग् निपातः ।। २ ॥
"Aho Shrut Gyanam"