________________
সাহা
त्वदर्शनं लेभे, तदा दूरीभूतमयोः सत्योस्तियग्नरकदुर्गत्योर्भय स्वप्नेपि व्यरमत्-निवृत्तं, अर्थान्मम। हेतुरूपं विशेषणमाह-तिर्य० कीदृश्योः ? दूरी० दूरीभूतमयोः, अदूरो दुरो भवामि स्म यौ क्ते दूरीभूतोऽहं याभ्यां, तयोः ॥ ७ ॥ त्वद्धर्मावाप्तितः पूर्व-मनुत्पन्नमयो: किल । देवमानवसद्गत्यो-न वासं कः समीहते? ॥८॥
अव०-अनुत्पन्नोऽहं ययोस्तयोः ॥ ८॥ इत्यस्मदेकवचनान्यपदद्वित्वोक्तिभिः स्तुतो वृषभः। देवोर्बुदगिरिमौलिः कलयतु लीलां मनोऽन्त, ९ इति अस्मच्छब्दैकवचनबहुव्रीहिद्विवचनप्रयोगचारु :
श्रीऋषभस्तवः ॥ ४ ॥ अव०-मनोऽन्तरिति 'पारे मध्येऽग्रेऽन्तः०' ३३१॥३०॥ इत्यव्ययीभावविषये विभाषाकरणसामर्थ्यात् 'तृप्तार्थ.' १३३११८५। इतिनिषिद्धोऽपि षष्ठीतत्पुरुषोऽभूत् ॥९॥
इतितुर्यस्तवावचूरिः॥ ४ ॥ अथ ऋषभवीरस्तवःश्रीऋषभवर्द्धमानौ युगपत्पौरस्त्यचरमतीर्थपती। निभृतीभूय सुभक्ती इतीह जायापती नुवतः।।
अव०-निभृतो-विनीतः, चिः क्त्वा यपू ॥१॥
"Aho Shrut Gyanam"