________________
स्तोत्री तथा श्रीऋषभादयोपि । जीयास्तेति आशीद्वितीयद्विकबहुवचनेन यूयमिति कर्ता लभ्यते ॥ ६ ॥ संस्तुत्य भक्तिभरतो वृषभादिमान श्रीवीरान्तिमान जिनपतीनिति तीतदोषान् । श्रीज्ञानसागरगतप्रवरार्थसार्थलीलाऽवगाहनकलावलमेव याचे ॥७॥
। इति युस्मत्पदबहुवचनान्यपदैकवचनगर्भः साधारणजिनस्तवस्तृतीयः ॥ ३॥ अथ श्रीऋषभस्तव :___ अव०-स्थानाङवृत्तौ 'अतीत इत्यत्र पिधानवदतीत्यकारलोपो' इत्युक्तेः तीतशब्दोऽत्र साधुः । तृतीयस्तवावचूरिः ॥३॥ कृपया प्रकटीकृताखिल-व्यवहारोतमधर्मसत्पथम् । प्रथमं जिननायकं मुदा, विनयेन स्तुतिकर्मतां नये
अव०-कृप०-प्रकटीकृता अखिला व्यवहारस्य उत्तमधर्मस्य च सत्पथा येन तम् ॥ १॥ श्रुतत्वां मे श्रुती धन्ये, दृष्टत्वां चक्षुषी स्तुवे । कराभ्यां चर्चितत्वाभ्यां, कृतार्थोऽस्मि
जिनेश्वर! ॥२॥
"Aho Shrut Gyanam"