________________
अष्टादश
अभिष्टुततवाऽष्टापि, सिद्धयः स्युः सहर्द्धयः । सम्यग् विधिसमाराद्ध-युष्मयि स्युः श्रिय: स्थिरा:
अव०-अभि०-अभिष्टुता यूयं येन तस्य, सिद्धयो लघिमाद्याः, ऋद्धयः आमौंषध्याद्याः । सम्यग् विधिना समाराद्धा यूयं येन. तस्मिन् । भिन्नवाक्यत्वेन स्युरित्यस्य न पौनरुक्त्यम् ॥ ५॥ ध्यातृध्येयोभयीभूत-यूयं जीयास्त हे जिनाः !। युष्मच्छब्दबहुत्वाऽन्य-पदैकवचनस्तुताः ॥६॥
अव-ध्या०-ध्यातारश्च ध्येयाश्च तेषामुभयं-द्वयं, यथा द्वयत्रयादिशब्दा मुख्यवृत्त्या गुणिनि वर्तमाना अपि विवक्षया गुणेपि वर्तन्ते, गुणा त्वयट तयडित्यादिषु तथोक्तेः । तथा उभयशब्दोऽप्यत्र गुणप्रधानः, 'सूत्रार्थतदुभय विद' इत्यादिप्रयोगदर्शनाच । अतत् तद् भूता यूयं येषां ते, ध्या० सम्बोधने । कोऽर्थः? यथा येषां युष्माकं तीर्थकराणां श्रीवीरादीनां भावितीर्थकराः पद्मनाभादयो ध्यातारः. युष्माकं तीर्थकराणां पद्मनाभादीनां श्रीवीरादयो ध्येया भूतपूर्वगत्या इति भाविभूतयोरेकीकरणेन ध्यातृध्येयोभयीभूता यूयं । यद्वा एकत्रैवोभयम् । यथा पद्मनाभो जिनध्याता भूतपूर्वतया श्रीवीरध्यातृत्वात्, ध्येयश्च परेषां द्रव्यजिनानां इति, यथा पचनाभजिनो जिनध्याता जिनध्येयश्च
"Aho Shrut Gyanam"