________________
श्रीशङ्केश्वरपार्श्वनाथस्तवनम् एषां पुनविमलमार्गमहोदयार्थ,
दुष्कर्मणां कुरु पराकरणं गुरुस्त्वम् ।।१३।। मोहावमोहवशतः शतशोऽन्यदेवाः,
सेवारसादनुगुणा विहिता मया ते । तैः काऽपि सिद्धि रभवन्न मनोरथस्य,
तश्चै (च्चे)तसः स्थिरदृशा त्वयि मे बभूव ॥१४॥ सिद्धप्रसिद्धमहिमा भगव (व) त्वमेव,
देवः सदैव धरणोरगराजसेव्यः । विश्वम्भरः शिवकरः करुणैकवृत्ति
वि (वि) श्वेशिता जनपितामह एव साक्षात् ।।१५।। तेजस्तवाव्ययन (त) रं तरसान्तरारि
विस्तारिवर्गहनने तरवारिधारिः। तस्मात् त्रयीतनुलसत्तनुरेव भासि,
शोभातिरेकवशतः शतमन्युमान्य ! ॥१६॥ के के त्वया न भगवन्ननुयायिनः स्वा:,
विश्वाधिपत्यकमलां विमलां न नीताः। ७. अतिशयेनाव्ययं अव्ययतरम् । ८. तरसा-शीघ्रम् । ९. खड्गापरपर्यायोऽयं शब्द: 'तलवार' इति लोकरूढयनुगश्च तस्य धारि:तीक्ष्णाग्रं 'धार' इति पदवाच्यं बोध्यम् । १०. त्रयी-त्रिपदीरूपा तनुः यस्यैतादृशद्वादशाङ्गश्रुतज्ञानरूपा लसत्तनुः यस्य स इतिविग्रहः । ११. मन्युशब्दः यज्ञवाच्यप्यस्ति अतः 'शतमन्यु' पदेनात्र लौकिकदृष्ट्या यज्ञशतकरणोत्तरलभ्येन्द्रपदवीरूढिमनुसृत्य 'इन्द्र' रूपार्थो ग्राह्यः । १२. स्वपदस्य सर्वादित्वाभावमत्र सूचयित्वा ज्ञाति-धनरूपार्थे सर्वादित्वनिषेधं व्याकरणप्रसिद्धमुपजीव्य अनुयायिनां ज्ञातीयत्वं प्रकल्प्य परमात्मनो विश्वजनीनता ध्वनिता ।
"Aho Shrut Gyanam"