________________
५८
श्रीशङ्केश्वरपार्श्वनाथरतवनम् राजा द्विभागमदधाद् विविधार्थबोधात्,
क्रोधानुरोधनधियो विरराम कासम् । माङ्गल्यमाल्यपरिपूजनया प्रसादी,
शङ्केश्वरः प्रभुरसौ सुरसौख्यकारी ॥५॥ त्वन्नाम्नि धाम्नि भगवन् ! हरिशङ्कराद्याः,
स्वांश दधुर्मधुरपूजनहेतवेऽमी । तल्लेभिरे फलमलं विमलं त्वदीयं,
ते विश्वपूज्यपदसम्पदमङ्गनाढयाः ॥६॥ ये चक्रीया (स)त्ककमलापरिभोगमग्ना:,
भूता भवन्त्यभिनवैविभवैर्मनुष्याः । त्वत्पादपद्मरजसामनुशीलनस्य,
माहात्म्यमद्भुतमिदं जगति प्रतीमः ॥७॥ नामानि यानि जगदुद्धरणाय लोके,
गेयानि तानि किल निश्चिनुमस्तवैव । पर्यायवृत्तिविधया सुधयावलिप्ता,
भावा भवन्ति सरसाः स्वरसाद्यथैव ॥८॥ त्मचिन्तनया परिणतः सन् शैवस्थिति शिव:-मोक्षः तत्सम्बन्धिनी स्वीयां स्थिति वपुषि-प्रक्रमात् ध्यातुरन्तरङ्गमनोमयसृष्टौ संवेदनादिद्वारा स्वत एव भास्वान्-तेजस्वी प्रभुः दर्शयते-परमात्मस्वरूपध्यातृन् परमात्मस्वरूपानुभवयुतान् कारयतीत्यर्थः ।
४. धाम्नि-तेजस्वरूपे त्वन्नाम्नि शङ्केश्वरपार्श्वनाथरूपे हरिशङ्कराद्याः लौकिकदेवाः शं इति शङ्करवाचक ख इति विष्णुवाचकं ईश्वर इति ब्रह्मावाचकं इत्येवंरूपेण स्वांशं दधुः येन च तैरेवमित्थं कल्पितं यदस्य नामाक्षराणि पार्श्वनाथप्रभुनाम्नि संनिविष्टत्वात् पूज्यमानानि पूजास्पदत्वमस्माकमपि प्रथयिष्यन्ति।
"Aho Shrut Gyanam"