________________
श्रीशङ्केश्वरपार्श्वनाथस्तवनम् ५७
वाचकमेघविजयरचितम् । . ।श्रीशलेश्वरपार्श्वनाथस्तवनम् ।
ॐ ह्रीं क्लीं अर्ह ऐं नम: सिद्धम् । श्रीसारणाचलमहेश्वरसन्निधाने,
सम्पत्करी शिवपुरीनगरी सुरीभिः । (स)तद्राज्यभाजि ननु राजनि वैरिशल्ये,
शङ्केश्वरो विजयतां जिनपार्श्वनाथः ॥१॥ स्पष्टीबभूव भविनां भुवि भागधेयाद्,
ध्येयातिशायि-सुखदायि-सुनामधेयः । शवेश्वरस्तनुमयूखदिनेश्वरोऽर्हन्,
नेत्राऽमताञ्जनजगत्प्रियरूपधेयः ।।२।। ॐकार एष सविशेषविधेविधाने,
श्वेतातपत्ररुचिसम्भतचारुमतिः । देवाऽसुरोरगनरेश्वरसेविताही,
राज्यश्रियं त्रिभुवनस्य दधाति पावः ॥३॥ नैतादृश स्त्रिभुवने जनताभिनेता,
__ योगीश्वरोऽपि विबुधाधिपतेः श्रियाढ्यः। शैवस्थितं (ति) वपुषि दर्शयते जिनोऽपि,
ब्रह्मक्रियापरिणतः स्वत एव भास्वान् ॥४॥ १. ध्येयान् अतिशेते यत् इति ध्येयातिशायि सुखं दत्ते यत् इति सुखदायि ध्येयातिशायि च सुखदायि च सुनामधेयं यस्य स इतिविग्रहः । २. तनुः-शरीरं तस्य ये मयूखाः शरीरस्य तेजोऽञ्चितत्वात् किरणानि तैः दिनेश्वरः सूर्य इव योऽसौ इति समासः । ३. जिनोऽपिरागद्वेषजयकारी अपि ब्रह्मक्रियया-योगसम्बन्धिप्रक्रियानुगतपरमा
"Aho Shrut Gyanam"