________________
स्तोत्री
१२।२।७५। इति पञ्चमी । मूर्द्धनि भवो मूर्द्धन्यो-लक्षणोन्कृष्टः, धन्येषु मूर्द्धन्यः । अविषयौ विषयौ क्रियेथे स्म, 'कृभ्वस्ती० ति च्चौ, ईश्च्चाविति ईकारः । निजवित्तव्ययस्य विषयीकृतौ युवां येन स, तस्य । अत्र युवादेशं बाधित्वा परत्वात्तवादेशः॥४॥ ध्यातश्रीविमलाचलतीर्थ
स्थितयुवयि भव्यता नियमात् । हे स्वस्वबोधकयुवाँ ! हृदि
वसतं मे जिनाधिपती ॥ ५॥ अव०-ध्यातौ श्रीविमलाचलतीर्थे स्थितौ युवां येन तस्मिन् जने नियमात् भव्यता अस्तीति सम्बन्धः । अभव्यस्य तदसम्भवात् । हे स्व०-चीप्सायां द्वित्वे स्वस्थ स्वस्य च बोधको युवां ययोः, युवयोः स्वयम्बुद्धत्वादिति भावः । हे स्व० हृदि वसतं । पञ्चमी तं। अत्र स्तवे बहुव्रीह्येकवचने प्रस्तुतेपि सम्बोधने युष्मच्छब्दस्य अन्यपदार्थस्य अभिन्नस्यैव भावादन्यपदे एकत्वं न सम्भवतीति तदकरणम् । एवमुत्तरस्तवे एकत्वे प्रस्तुतेपि सम्बोधने बहुवचनमेकत्वासम्भवादेवेति ज्ञेयम् ॥५॥ नूतौ युवामजितशान्तिजिनौ मयेति,
युष्मत्पदद्विवचनान्यपदैकतोक्त्या ।
"Aho Shrut Gyanam"