________________
अष्टादश
'मन्तस्येति 'त्वमौ प्रत्यया विति च परत्वाद् बाधित्वा 'तुभ्यं मह्यं ड्या ।।१।१४। इति. तव मम ।२।१।१५। इति च सूत्रयोरेव फलनमभ्यूह्य । परभागो-गुणोत्कर्षः स एव सकलजनाप्यायकत्वात् परागस्तं भजति, भजो विण । अवृषभौ वृषभौ भवथः स्म, ‘गत्यर्थाकर्म० । ।५।१।११। इति कर्तरि क्ते वृषभीभूतौ तदुद्धरणसमर्थत्वात् युवां यस्मिन् . स वृषभीभूतः त्वं तं वृष० । मन्तावयवस्य युवादेशे 'अमौ मः' ।२।१।१६। इति अमो मे ‘युष्मदस्मदोः ' ।२।१६। इति आः ।। २ ।। प्रिययुवया पुरुषेण,
प्राप्यन्ते शान्ति-कान्ति-धृति-मतयः। प्रतिपन्नप्रभुतुभ्यं,
जनाय भद्रं भवेन्नूनम् ॥३॥ अव०-प्रिय०-प्रियौ युवां यस्य. तेन । प्रतिपन्नौ प्रभू युवां येन स तस्मै । अत्र युवादेशं बाधित्वा परत्वात्तुभ्यमादेशः। * तद्भद्रायुष्यक्षेमार्थ ' ।२२६६। इति चतुर्थी ॥ ३ ॥ नित्यं मनोधृतयुवन्नुर्नान्यो जगति धन्यमुर्द्धन्यः । निजवित्तव्ययविषयीकृततव ऋद्धिः प्रवर्द्धत ॥४॥ . अव०-नित्यं०-नित्यं मनोधृतौ युवां येन स, तस्मात् । ङ्सेश्चादित्यादिप्रक्रिया प्राग्वता नुरिति नृशब्दात् 'प्रभृत्यन्यार्थ'
"Aho Shrut Gyanam"