SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ त्रिदश-तरङ्गिणी त्यक्त्वा वारिरुहं जलाशय रतिः सेवां यदह्रिस्फुर ल्लावण्यामृतपल्वलस्य कुरुते नित्यं यदङ्कच्छलात् । तत्पुण्येन लभेत तत्सुरनराधीशोत्तमाङगेष्वव स्थानं मुक्तिपदप्रदोऽस्तु भवतां श्रीमान् स पद्मप्रभः ।।७।। स्फुरत्तरस्फारफणालिरूपिणी रत्नांशुजालदधदिद्धपल्लवान् । यः पञ्चशाख ः समभूत् सुरद्रुमः, स चिन्तितं रातु सुपार्वतीर्थकृत् । मन्ये भवाधःकृतिशक्तिमाप्तुं, प्राज्यं सिषिवे विधुरंहिलग्नः । तथैव यस्याऽऽकृतयोऽप्य भूवंश्चन्द्रप्रभ: पातु जगन्ति सोऽर्हन् ।।९।। नैवामतं प्रदददप्यजरामरत्व दाने क्षमोऽस्मि विभुरेष जिन स्त्विहापि । व्यात्वेति याचत इवांह्रिगतोऽयमिन्दुस्तच्छक्तिमस्तु विधुलक्ष्म जिनः स भूत्यै ।।१०।। ॥ इति तरङ्गचला 11 इतियुगप्रधाना० स्रोतसि चतुर्विंशतिजिनस्तवाशीर्वादह्रदे आद्यजिनाष्टकस्तवाशीर्वादनामा सचलः सप्तमस्तरङ्गः ।। अष्टमस्तरङ्गः। देवानामधि : स्फुरद्गुणनिधिः शुष्यद्भवाम्भोनिधि दुष्कर्मारिप्रधिर्जने हितविधिद्वैधा विमुक्तोपधि: । पातु श्रीसुविधिः सुरैर्वरविधिस्तुत्यः प्रभावोदधि र्येनोद्यत्सुखधिक्रियाकृदबधि क्रोधः सयोधो युधि ।।११।। नरामरा बिभ्रति भृङ्गभूयं, यस्मिन् सदा योगिमनस्सर:स्थे । तनोत्वयं शीतलपादपद्मः, संसारतापप्रचयप्रणाशम् ।।१२।। श्रेयःश्रेणिमयं तनोतु भगवान्नि:श्रेयसश्रीप्रभु निर्विश्रामसुरेशसंस्तुतपदः श्रेयांसनामा जिनः । मम्पत् कम्पपराङमुखा त्रिजगतो विश्रामभूश्चेतसां, यन्नामस्मृतिमात्रतोऽपि भविनां पाणौ स्फुरत्यञ्जसा ।।१३।। "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy