________________
६२
स्तोत्र सञ्चये
"
अथ श्रीमल्लिजिनस्तोत्ररत्नम् १९ ( रथोद्धता ) मल्लिनाथ | भवतः स्तवं द्विधा, सर्ववैरिविजयश्रिये भजे ! सेवितानि सदुपाययोगतः स्याद्बुधः पदमुपेयसम्पदः ये प्रकल्पित कियत्फलेष्वपि स्वर्तुमादिषु भृशं जिनाऽऽदृताः । निश्चितेन्द्रविभवादिसत्फले, तेऽपि किं तव गुणस्तवेऽलसा : ? कुम्भसम्भव ! भवान्विशोषण, नाद्भुतं तव तदद्भुतं पुनः । यद्रविं स्वमहसा विजित्य भा-मण्डलाङ्गमकृथाः स्वसेवकम् तां तवेश ! जननीं प्रभावती, स्तौम्यनन्तमहिम प्रभावतीम् । त्वां प्रसूय भुवनत्रयप्रभुं प्राप या मघवतामपि स्तुतीः सेवते जिन ! कुबेरयक्षराज् यौ शिवाय धरणेन्द्रपत्न्यपि । त्वत्पदौ मम हृदीश ! तिष्ठतां, तौ सदापि किमतोऽर्थसे परम् ॥५॥ गीः सुधां तत्र पिबद्धिराष्यते, नैव तृप्तिरमरासुरादिभिः । ते तयेति नु घटानपूपुरन, विस्मृतोऽङ्कमिषतश्च कोऽपि सः क्लिश्यते किमिह सम्पदर्थिभिर्मन्त्रयन्त्र सुरसाधनादिभिः । ध्यानतोऽपि तव पादपङ्कजं, भक्तिकाय वितरत्यभीप्सितम् भल्लिनाथ ! भवतः स्तवादतः, प्रार्थये नहि नृपादिसम्पदः । सप्तभीतिरहितं तु देहि मे, सौख्यमेत्यनुभवं तवैव यत् स्तुतिमिति तनुते जिनेन्द्र ! यस्ते, मत्रवमहामुनिसुन्दरस्तुतां हेः । स भवति गुणसम्पदा समस्ते, फलमिति तद्वितराचिरान्ममापि
॥८॥
॥९॥
इति० एकोनविंशति श्रीमल्लिनाथस्तोत्ररत्ननामा एकोनविंशतितमो मूलतश्च तरङ्गः ॥
अथ श्रीमुनिसुव्रतजिनस्तोत्ररत्नम् २० ( स्वागता ) श्री सुमित्रनृपनन्दन ! नन्द, स्वर्दुमाभ 1 जगदीहितदाने । संस्तवेन मुनिसुव्रत ! तेऽहं, सर्ववैरिविनयश्रियमीहे
"Aho Shrut Gyanam"
॥१॥
॥२॥
॥३॥
118 11
॥६॥
॥७॥
॥१॥