________________
त्रिदशतरङ्गिणी स भवति गुणसम्पदा समस्ते,
फलमिति तद्वितराचिरान्ममापि ॥९॥ औप० इति० सप्तदशश्रीकुन्थुजिनस्तोत्ररत्ननामा सप्तदशो मूलतश्च तरङ्गः।।
__ अथ श्रीअरजिनस्तोत्ररत्नम् १७ ( उपजातिः) संसारशत्रोविनयश्रियाऽऽप्य-मिच्छन् शिवं चक्रिरमां जहौ यः। अरं जिनं तं विषयैर्विचित्रै-ररञ्जित स्तोमि जिताखिलाऽऽरम् ॥१॥ चिकीर्षतेऽपि स्तवने तवेष्टान्यास्कन्दतां तत्करणे न चित्रम् ।। देवान्तराणां तु कृतेऽप्यमुष्मिन् , प्रयासमेवाऽऽप्नुवां कथं तत् ? ॥२॥ सुदर्शनक्ष्मापतिवंशमौलिं, देवीतनुजं जगतामधीशम् । परानुवृत्त्यापि नरोऽरदेवं, स्तुवन्न रोरत्वमुपैति जातु
॥३॥ यक्षेशयक्षं जिन ! तं स्तवी मि, धारिण्यभिख्यामपि यक्षिणी ताम् । नित्यं तत्रोपासनभक्तदक्षा-दिभिः शिवं यौ कुरुतः करस्थम् ॥४॥ चिह्नन्छलाद् यद्विदधाति नन्द्या-वर्त्तः प्रभो ! ते पदपद्मसेवाम् । अचेतनोऽप्येष बभूव तेन, धुरीणवृत्तिः किल मङ्गलेषु ॥५॥ निरासि यन्मोहरिपुस्त्वया त-त्वन्मत्परान्न्वेष रुणद्धि जन्तून् । पुरे विविझूस्तव शासने ते, त्वा मित्यदृष्ट्वैव भवे भ्रमन्ति ॥६॥ को वाऽत्र दोषस्तव तस्य वेश !, तस्यैव यत्ते दधते सदाज्ञाम् । स्वाज्ञानुगेष्वेव तु स प्रगल्मो, जह्यर्बुधास्तद्भवदां तदाज्ञाम् ॥७॥युम्मम्।। मा त्याक्षीर्जिन ! नस्त्वदेकशरणान् स्वामी पुनस्त्वत्समो, भावी क्वेति *कुनाभयो नव मरुत्सञ्चारिताब्जच्छलात् । भक्त्या केवलिनं चरन्तमवनीं विज्ञापयन्ति स्म यं, तन्यात् सर्वभयक्षयान्मम परं श्रीमानरः शर्म सः ॥८॥ शार्दू० स्तुतिमिति तनुते जिनेन्द्र ! यस्ते, मघवमहामुनिसुन्दरस्तुताहेः ।। स भवति गुणसम्पदा समस्ते, फलमिति तद्वितराचिरान्ममापि ।।९।।औप० इति० अष्टादशश्रीअरजिनस्तोत्ररत्ननामा-अष्टादशो मूलतश्च तरङ्गः।.
* निधानानि
"Aho Shrut Gyanam"