________________
२४
जैनस्तोत्रपौषे जनसौख्यपोषके, सितषष्ठीदिनलब्धकेवलम् । विमलं सकलज्ञशेखरं, वरभक्त्या समुपास्महेऽन्वहम् ॥२०॥ वैतालीयम् पौषशुक्लनवमीदिनलब्धप्राज्यकेवलमहोमहिमाढ्यः । शान्तितीर्थकर ! किंकरतां ते, सर्वदेव भगवन् करवाणि ॥२१॥ स्वागता पौषशुक्लैकादशीलब्धजन्मा, यस्य प्रोद्यत्केवलज्ञानभानुः ।। तुर्यारस्यादीदिपन् मध्यमार्ग, द्वैतीयीकस्तीर्थनाथः स जीयात् ॥२२॥
शालिनी सहस्यशुक्लकचतुर्दशीज, यज्ञानतेजः सकलां त्रिलोकीम् । अपूपुरत् संवरराजजन्मा-ऽभिनन्दनस्तुर्यजिनः स नोऽव्यात् ।। २३ । उप० या श्रीमतो धर्मनिनश्वरस्य, तं ज्ञानचन्द्रं प्रकटीचकार । गम्यो न योऽम्भोदविधुन्तुदादे-स्ता पौषराकामिह कामयेऽहम् ॥२४॥
इन्द्रवज्रा । पौषः ॥३॥ माघस्य षष्ठ्यां विशदेतरस्यां, यत्रावतीर्णो युगपच्चकार । हर्ष विषादं च भुवो दिवश्व, पद्मप्रभ तं प्रमुमाद्रियेऽहम् ॥२५॥ श्रीशीतलः स्वीकृतवान् द्वयोः स्व-कल्याणयोर्जन्मतपस्ययोर्याम् । सा द्वादशी श्यामतमा न माघी, मान्या भवेत् कस्य सचेतनस्य ? ॥२६॥
इन्द्रवज्रा असिता तपसस्त्रयोदशीयं, शिवहेतुर्भवति स्म यस्य नेतुः ।। दशसाधुसहस्रसंयुतस्य, प्रथमः तीर्थपतिः पृणातु सोऽस्मान् ।२७॥
॥ औपच्छन्दसिकम् ॥ यत्केवलज्ञानरमाप्रयोगादमाऽपि माघस्य बभूव सश्रीः ।। एकादशस्तीर्थकरो नराणामेकां शुभामेव दशां स दिश्यात् ॥२८॥
उपजातिः यत्र जातमभिनन्दनजन्म, ज्ञानमाप वसुपूज्यसुंतश्च । सा द्वितीयकतिथिः सितमाघे, नित्यमेतु मनसोऽतिथितां मे
इन्द्रवज्रा
॥२९॥
स्वागता
"Aho Shrut Gyanam"