________________
जैनस्तोत्र द्वादश्यशुक्लाऽपि किलोमासः प्रासाधि जन्मच्यवनोत्सवाभ्याम् । याभ्यां निजाभ्यां जिननायको तौ, नमामि पद्मप्रभनेमिनाथौ ॥२॥ उप: यद्वा- निजच्यवनजन्मभ्यां, कार्तिकद्वादशीश्चियम् । श्यामाप्यऽलाम्भ याभ्यां तो, नैमिपद्मप्रभौ भजे ॥२॥ पथ्यावयत्रम् पविविता येन सितेतरा व्रतस्वीकारतः कार्तिककत्रयोदशी । तत् सर्वशुद्धेति दधे प्रथां नु सा, सर्वापि पद्मप्रभमानमामि तम् ॥३॥
इन्द्रवंशा उपजातिः यन्मोक्षपर्वप्रभवेन दीपोत्सवेन, वैशद्यमिता जिगाय । राकाः कुहः कार्तिकस्य सर्वाः, सार्वःस वीरः शिवतातिरस्तु ॥४॥ उपजातिः बाहुलस्य धवले तनीयके, सत्तियावतिथिताऽऽप्तकेवलम् । विश्वविश्वजनताहितावहं, श्रीजिनं सुविधिमर्चयाम्यहम् ॥५॥ रथोद्धता कार्तिकस्योज्ज्वलद्वादशीवासरे, केवलज्ञानमासादयामास यः । स्फातिमत्प्रातिहार्यातिशेषश्रियं, श्रीअरं सादरं तं स्मरामीश्वरम् ॥६॥
स्रग्विणी । कार्तिकः १ ॥ कर्पूरगौरवपुषः सुविधेर्जिनस्य,
___या जन्मनोऽजनि जगत्सुखदस्य की । मा पञ्चमी शितिसहस्य कथं नमस्या,
न स्यात् सुरासुरनृणां जननीव रामा ? ॥७॥ वसन्ततिलका सुविधि विधिवत् स्तुमो जिनं, नवमं येन जगन्नवं कृतम् । निजमयमराज्ययोगतः सहषष्ठीदिनमाद्यपक्षगम् ॥८॥ बैतालीयम् मार्गकृष्णदशमीदिने शमी-भावमाप्तमहमाप्तमन्तिमम् ।। ज्ञातनन्दनमनन्तसंविद, दम्भवर्जितहृदा मुदा स्तुवे ॥९॥ रथोद्धता प्रभु पद्मरागप्रभ देवपद्म-प्रभं भग्नसर्वान्तरारातिगर्वम् । सहस्यासितकादशीप्राप्तमोक्षं, सुखज्ञानसाम्राज्यमाज भजेयम् ॥१०॥
भुजङ्गप्रयातम्
"Aho Shrut Gyanam"