________________
अन्तर्वेदना।
अपुण्यकर्माणि समर्जितानि मया गते जन्मनि मालिशेन । फलानि तेषामधुनोदितानि सास्थ्यं धरे यद् भगवत्कृपाऽसौ ॥१॥ ममाद्ययावद् बहवः प्रसङ्गाः सन्ति स्म निर्बुद्धिविवक्षणत्वाः । यदा यदाऽऽयान्ति मम स्मृति ते तदा तदा ताम्यति मानसं मे ॥२॥ सुखस्थितौ स्वस्थधियो भवन्ति विवेक-वार्ता च वदन्ति सर्वे । बुद्धा प्रबुद्धो बलवांस्तु सैव सस्थश्चरेद् योऽसुखमङ्गमेऽपि ॥३॥ दयानिधिस्त्वं जगदीश्वरोऽसि महामहोभासितविष्टपोऽसि । स्वत्पादलग्नस्य सुखीकृतौ मे दीनस्य हीनस्य विलम्बसे किम् ? ॥ ४ ॥ नमो नमस्ते विभवे स्वयम्भुवे वहस्यवश्यं भगवन् ! दयां मयि । पुनः पुनः पूरयसीप्सितानिमे त्वद्वाविरुद्धं विहरे तथाप्यहम् ॥ ५॥
मङ्गल-प्रार्थना।
विश्वम्भराय विभवे करुणाकरायः
विश्वप्रकाश्रमहसे परमेश्वराय । नाथामि ते भगवते प्रणिपत्य मक्त्या
शश्वत् प्रसाद-सुभगं भवतान्मनो मे ! ॥
शुभं भूयात् ! सुखं भूयाद् ! वक्तुः श्रोतुः सुमेधसः। ग्रन्थितुः प्रकटीकतुर्द्रव्यदानकृतां तथा ॥
न्यायविजयः।
Aho! Shrutgyanam