________________
૨
शब्दरत्नाकरे
घोषयित्नुः पोषयित्नुः कोकिलः कौकिलान्वितः ॥ ३४९ ॥ मौकुलिर्मोकुलः काके, वनकाके तु द्रोणवत् । द्रोणकाकः, निशाटे तु कौशिकः कुशिकेऽपि च ॥३५०॥ कुक्कटः कुर्कुटस्ताम्रचूडेऽङ्को वक्रे चक्रतः । हंसे, कृष्णचञ्चुपादे धार्तराष्ट्र इति स्मृतः ॥ ३५१ ॥ धृतराष्ट्रो भवेद्, हंस्यां वारला वरला तथा ।
वारटा वरटा तद्वत् वरटी, खञ्जनः पुनः ॥ ३५२ ॥ खञ्जरीटः, सारसे तु लक्ष्मणो लक्षणोऽपि च । सारस्यां लक्ष्मणा लक्ष्मणी च लक्षणया सह ॥ ३५३ ॥ क्रौञ्चे क्रुङ् शत्त्रि-शक्री च क्रौञ्च्यां क्रुङ् कुचया समं । चाषे चासः किकिदीविः किकीदीवि-किकीदिवौ ॥३५४॥ किकिः किकीः किकिदिविः दैविः, शकुनिभिद्यथ । वर्तको वर्तवत् प्रोक्तो वर्तका वर्तिका स्त्रियाम् ॥ ३५५॥ कटुक्काणे टिट्टिभः स्यात् टीटिभश्चटके पुनः । कुलिङ्ककः कलम्बिकः चटका क्षिपकादिषु ॥ ३५६ ॥ स्त्रियां तयोः स्त्र्यपत्येऽपि चाटकेरो नरे तुकि । जलरङ्कौ जलरञ्जः कालोत्कण्टक - कण्ठगौ ॥ ३५७ ॥ दात्यूहश्च सदात्योहः, कह्ले बक-बुकौ समौ । बकोटोsपि, बलाकायां कण्टिका कण्ठिके बिसात् ॥ ३५८ ॥
१ वक्र चक्राभ्यां परोऽङ्कशब्दः, वक्राङ्कः, चक्राङ्क इति ।
२ कालशब्दात् परौ कण्टक- कण्ठगशब्दौ कालकण्टकः, कालकण्ठग इति । ३ बिसशब्दात् कण्टका- कण्ठिकाशब्दौ योज्यो, बिसकण्टिका, बिसकण्ठिक्रेति ।
"Aho Shrut Gyanam"