________________
शब्दरत्नाकरेलयमृणाला-मृणाले अवदाहेष्टकापथम् । इष्टकापथावदाही बालके वाल इष्यते ॥ १९७ ॥ हीवरं हिरिवैरं च दद्रुमे तु प्रपुन्नटः। प्रपुन्नाटश्च प्रातुन्नाटकः पद्माट इत्यपि ॥ १९८ ॥ प्रपुन्नाडः प्रपुनाड उरणा-क्षोरणाख्यकौ । शिरीष भण्डी भण्डीरो भण्डिरो भण्डिलोऽपि च ॥१९९॥ जम्बूवृक्षे जम्बुरपि तत्फले जम्बु-जाम्बवे । जम्बूः स्त्री स्यादरलौ त्वरेटुः श्योनावशोणकौ ॥२०॥ स्योनाकः कुटन्नटवद् नटोऽथ चिरजीवकः । जीवको मधुरकश्च मधुरः कूर्चशीर्षके ॥ २०१ ॥ कपीतनो गर्दभाण्डे कपीतः पीतनस्तथा । नागकेसरे केसरो नागः स्याद् मदनद्रुमे ॥ २०२ ॥ पिण्डी पिण्डीतकः कटहलद्रौ पनसः स्मृतः । फनसः पणसो भल्लातके रुष्वोऽप्यरुक्करः ॥ २०३ ॥ पिच्छिलायां शाल्मलिः स्याच्छल्मलिः शाल्मलोऽपि च । प्लीहशत्रौ रोहितको सरोहितक-रोहितौ ॥ २०४ ॥ रोही खदिरे गायत्री नन्तो यतश्च कथ्यते । पुण्डरीके तु पुण्डर्य प्रपुण्डरीकमित्यपि ॥ २०५ ॥ कतके कतोऽपि केशहन्या शमिः शमीति च । हस्खा शमीरुः शमीरस्तूते तूदं तुदं तथा ॥ २०६॥ मधुयष्टयां यष्टिमधु यष्टीमधुकमादृतम् । यष्टिर्मधुकं वक्पत्रे गुडत्वक् त्वक् त्वचं तथा ॥२०७॥
"Aho Shrut Gyanam"