________________
शब्दरत्नाकरे
माधवीलता माधव्यथोडूपुष्पे जपा जत्रा । मालत्यां तु जातिर्जाती सुमनाऽऽबन्त सन्तगा ॥१७५॥ विचकिले मल्लिका च मल्लिः स्याच्छत भीरुका । शीतभीरुर्वनजेऽस्मिन्नास्फोता स्फोटया समम् ॥ १७६ ॥ शिवमल्ल्यां बक-बुकौ वसूको वसुको वसुः ।
वृक्षरुहायां तु चन्दा चन्दाका च जयन्त्यपि ॥ १७७ ॥ जीवन्ती सुषिणे करमर्दः स्यात् करमन्दवत् ।
६६
कृष्णपाकफलः कृष्णपाकः कृष्णफलात् परः ॥ १७८ ॥ पाकः पाककृष्णफलः पाकाढिफलकृष्णवत् । प्रियङ्गौ फलिनीयुक्ता फला जम्बीरपादपे ॥ १७९ ॥ जाम्बीरोऽपि च जम्भीरो जम्भीलो जम्भ-जम्भलौ । बीजपूरे पूरकः स्यात् सुपूरकच केसरी ॥ १८० ॥ केसराम्लो ऽम्लकेसरो मातुलिङ्गश्च लिङ्गवत् । मातुलुङ्गोऽपि, ग्रन्थिले करीर - ककरौ समौ ॥ १८१ ॥ करर एरण्डे मण्ड आरण्डः स्यादमण्डवत् । उरुबूकश्वोरुबुको व्यडम्बक - व्यडम्बनौ ॥ १८२ ॥ कपिकच्छां तु कण्डूरा कण्डुराण्डाध्यवेः परा । शुकशिम्बा शुकशिम्बी विजयायां तु मातुली ॥ १८३॥ मातुलानी भृङ्गी भङ्गा धूर्ते धुस्तूर-धूस्तुरौ । धूस्तूर- घुस्तुरौ घुस्तुर्धरो धतुरो रवौ ॥ १८४ ॥ अर्कोऽर्कपर्णो वसुको वसुरा स्फोटयान्विता । आस्फोताऽथ दधिफले कपिच्छः स्यात्कपिच्छवत् ॥ १८५ ॥
"Aho Shrut Gyanam"