________________
चतुर्थः काण्डः । नेमी ङयतोऽपि नारङ्गे नार्यङ्गस्तापसद्रुमे । इङ्गुदी गुदमिङ्गुदः स्याच्छ्रीपय तु काश्मरी ॥ १६४ ॥ कश्मरीवत् काश्मर्या च काश्मीर्यपि च संमता । कम्भारी गम्भारी तुल्ये अम्लीकायां मताम्लिका ॥ १६५ ॥ अम्ब्लिका चाम्ब्लिकाऽम्ब्लीका तिन्तिडी तिन्तिली तथा। तिन्तिडीका तिन्तिडिका, दाडिमः शुकवल्लभे ॥ १६६॥ दाडिम्बो दालिमोऽपि स्याच्छेलुः श्लेष्मान्तके शलुः । लकुचे लिकुचोऽप्युक्तो बहुश्राडहुरित्यपि ॥ १६७ ॥ बीजके त्वासनः प्रोक्तोऽसनोऽशनवदाशनः । पाटला पाटलिः स्त्रीन्रोबहुत्व के भवेद् भुजः ॥ १६८ ॥ भूर्जो भुर्जः कर्णिकारे परिव्याधश्च व्याधवत् । जलवेतसभेदे स्यादिज्जलो हिज्जलोऽपि च ॥ १६९ ॥ निचुलो निचुरो धात्र्यामामलकी त्रिलिङ्गिका । कायस्थावद् वयःस्था च स्याद् भूम्यामलकी पुनः ॥ १७० ॥ ताली तामलक्यमली झाटा चाज्झटयान्विता । विनुन्नको नयाप्तो विभीतक विभेदकौ ॥ १७१ ॥ अक्षमया हरीतकी त्रिलिङ्गा स्याद् वयःस्थया । कायस्थैतत्फलत्रय्यां त्रिफली त्रिफला फलम् ॥ १७२ ॥ तृफला, गन्धवृक्षे तु वरणो वरुणस्तथा । भवेत् तमाले तापिच्छस्तापिञ्छो बिन्दुसंयुतः ॥ १७३॥ सिन्दुवारे तु निर्गुण्डी निर्गुण्डा च निगुण्ठ्यपि । सुरस इन्द्रसुरिसोऽप्यथातिक्तके लता ॥ १७४ ॥
५
"Aho Shrut Gyanam"
६५