________________
चतुर्थः काण्डः । मञ्जूषायां तु मञ्जूषा पेटा-पटिक-पेटकाः । पेडा, व्यवहारिकायां तु वर्धनीवदवर्धनी ॥ ५४ ॥ बहुकरो बहुकरी बहुकरा तयेरिते । धूल्यादौ तु समः कार-कराववकरः स्मृतम् ॥ ५५ ॥ खण्डनभाण्डे तु भवेदुदूखलमुलूखलम् । उरूखलं, किलिझे तु कटः कटी कटं तथा ॥ ५६ ॥ मुसले मुषलोऽयोग्रमयोनिर्वशनिर्मिते । भाण्डे तु कण्डोलकः स्यात्कण्डोलः पिटकः पिटम् ॥५७॥ तितउः चालनी स्त्रीषण् , सूर्प तालव्यदन्त्ययुक् । प्रस्फोटनेऽन्तिकायां वश्मन्तमश्मन्तकान्वितम् ॥ ५८ ॥ अखन्तकमखन्तं च चुल्लि-चुल्ल्यावुदः परे । हानं धानं ध्मानं च, पिठरस्त्रिषुचोखया ॥ ५९ ॥ उखः स्थालं स्थालिः स्थाली कुण्डकुण्डी च कुण्डिवत् । कुण्डी कुम्भिः कुम्भी घटे घटी कुटोऽस्त्रियां कुडः ॥६॥ कलसः कलशः कुम्भस्त्रिष्वङ्गारकपात्रिका । हसन्तिका हसन्ती च हसनी चाम्बरीषवत् ॥ ६१ ॥ अम्बारीषं, पिष्टपाकभृत्पृचीषजीषवत् । दा खजा खजाका च खजका खजिकापिच ॥६२॥ दारुहस्तके तु तर्दूस्तर्दूरपि गलन्तिका । आडूरालूर्भवेदालुः कर्करीका च कर्करी ॥६३॥ करकोऽस्त्री लोहकर्णवत्पात्रे कटहः स्मृतः । कटाहः कर्परस्तहत् खर्परस्त्रितयं त्रिषु ॥ ६४ ॥
"Aho Shrut Gyanam"