________________
२०
शब्दरत्नाकरेरुचिः क्षुधा-क्षुधौ, तृष्णक् तृषिते तृष्णकोऽपि च । क्षुदसहे क्षुधारुः स्यात् क्षुधालुः, शीतकाऽसहे ॥ ३६ ॥ शीतारुश्च सशीतालुः, पिपासायां तृषा-तृषौ । तृष्णा-तर्षों च, लिप्सायां त्रयोऽन्त्या अपि, भक्षके॥३७॥ आशितश्चाशिरो, भक्ते कुरुः कूरं च दग्धिका । भिस्साटा भिस्सटा भिस्सा, दधिसर्वरसाग्रके ॥३८॥ दधिमण्डं मण्डमपि, भक्तमण्डे तु प्रोस्रवः । । निप्रात् स्रावश्च, श्राणायां विलेपी च विलेपिका ॥३९॥ विलेपनी विलेप्याऽपि क्वाथिका कथिकाऽपि च । तरलं तरला, सूपे सूदो प्यथ तिलान्नके ॥ ४० ॥ .. कृसर-त्रिसरौ पुंस्त्री, पिष्टके पूप-पूपको। पूपिकायां पौलि-पौल्यौ पूलिका पोलिकापि च ॥४१॥ पूपली चेषत्पक्के त्वभ्यूपाऽभ्योषाऽभ्युषास्त्रयः । निष्ठानोऽस्त्री तेमने स्यात् , सठः पत्रफलादिके ॥४२॥ शाकं साकं हरितके, करम्भो देधिसक्तुषु । करम्बोऽपि, घार्तिके तु पूरः स्याद् घृत-पिष्टतः ॥४३॥ घृतवरोऽवसेकिमे वटको वटसंयुतः । स्नेहभृष्टतण्डुलेषु भरुजी भरुजापि च ॥ ४४ ।।
१ तृडादयस्त्रयः शब्दा लब्धुमिच्छायामपीत्यर्थः । २ प्रस्रवः, आस्रवश्व ! ३ निशब्दाभ्यां परः स्रावशब्दः, निस्राव-प्रस्रावाविति यावत् । ४ दधि. प्रधानेषु सक्तुग्वित्यर्थः । ५ घृतपूरः, पिष्टपूर इत्यर्थः । ६ स्ने है घृतादिभिः सह भृष्टेषु भजितेपु तण्डुलेषु ।
"Aho Shrut Gyanam"