________________
१८
शब्दरत्नाकरेपति-पाती ऋज-रिजाविडीडी डान्तिमावुभौ । इव-दीर्घादी प्रभुयुग विभुश्चाप्यथ वेतने ॥ १६ ॥ भृति-भृत्ये भर्म भर्मण्या कर्मण्याऽथ भारिके। भारवाड् भारवाहश्चाप्यथो वार्तावहे जने ॥ १७ ॥ वैवधिको विवधिको वीवधिकोऽथ भारके । भरो विवधो वीवधः स्यादथो भारयष्टिका ॥ १८ ॥ विहङ्गिका विहङ्गिमा, विक्रान्ते शूर-सूरको । कातरे भीरुको भीरुीलुकस्त्रस्नु-त्रस्तकौ ॥ १९ ॥ भृशाकुले समुत्पिञ्ज उत्पिञ्जल-कपिञ्जलौ । अथो महेच्छेऽनुदार उदारोदात्तकावपि ॥ २० ॥ दयालौ तु कृपालुः स्यात् कृपारुरनुकम्पने । कारुण्यं करुणा हिंस्रे हिंसीरोऽपि, निबर्हणे ॥ २१ ॥ विशारणं विशरणं निर्वासन-प्रवासने । उद्वासनं, चाहे तु शैच्छेदिकसंयुतः ॥ २२ ॥ शीर्षच्छेयो, मृते प्रेत-परेतौ, तदहेऽर्पणे । तदर्थ चोर्ध्वदेहिकमोर्ध्वदेहिकमित्यपि ॥ २३ ॥ ऊर्ध्वदैहिकमप्यन्याधाने तु मृतदाहगे। चिति-चित्या-चिताः प्रोक्ताः,ऋजौ तु प्राञ्जलोऽञ्जसः॥२४॥ अनृजौ तु शठः शण्ठो, धूर्ते व्यंशक-व्यंसकौ । शठ-शण्ठौ च षण्ढेऽपि, जालिके मायि-मायिकौ ॥२५॥
१ ह्रस्वदर्धािवादी ययोस्तो डकारान्तौ इ ई चेत्यर्थः । २ अधिकरणे कृत् । ३ मृतदाहं गच्छतीति मृतदाहगस्तस्मिन् , अग्न्याधान विशेषणमिदम् ।
"Aho Shrut Gyanam"