________________
तृतीयः काण्डः। कृती कृतार्थश्च विज्ञोऽभिज्ञो वैज्ञानिकोऽपि च । विदग्धे छेक-च्छेकालौ छेकिलश्च, कलाविदि ॥ ७ ॥ कलाज्ञश्च कलज्ञोऽपि, क्षुण्णः संस्कृतवाचकः । तृतीयवर्गप्रान्त्याप्तो, वक्नुर्वग्नु-वचक्नुकौ ॥ ८ ॥ वाग्मिनि स्यात् , वक्तरि तु वदावद-बदौ समौ । अवाक्श्रुतावेडमूकानेडमूकावनेडकः ॥ ९ ॥ कलमूकश्वान्ध-शठ-मूर्खवाच्यपि संमतः । सतामनेडमूकश्चाऽस्फुटवाचि तु काहलः ॥ १० ॥ लोहलोऽपि जड-कडौ, ज्ञायके विदुरस्तथा । विन्दुस्त्रिंक-तुर्यवर्गमध्यौ कटुर-कद्वरौ ॥ ११ ॥ अत्यन्तकुत्सिते, क्षिष्णुर्णान्तो निराकरिष्णुके । प्रियंवदे शक्नु-शक्लो वदान्यश्च वदन्ययुक् ॥ १२ ॥ दानशीलेऽप्यमू, मूर्खे बालिशो बाडिशो जडः । जलो मुहेर-मुहिरावायोऽयःपूर्वशूलिकः ॥ १३ ॥ भवेद् राभसिके, लोकप्रीणके तु पृण-प्रिणौ । प्रीणश्च लोकंपूर्वाः स्युः, परायत्ते परात्परौ ॥ १४ ॥ वश-वन्तौ गृह्यकश्च गृह्या-ऽऽगृह्यकसंयुतः । नायके नेत्र-नेतारावीडीश ईश्वरस्तथा ॥ १५ ॥
१ तृतीयवर्गस्य टकारः, चतुर्थवर्गस्य दकारश्च मध्ये ययोरेतादृशौ कटुरकद्वरावित्यर्थः । २ वदान्य-वदन्यौ । ३ आयोऽयःशब्दौ पूर्वी यस्य तादृशः शूलिकशब्द आयःशूलिक अयःशूलिकश्चेत्यर्थः । ४ लोकम्पृणः, लोकम्प्रिणः, लोकम्प्रीणश्चेत्यर्थः । ५ परवशः, परवांश्चैत्यर्थः । ६ ईड्, तालव्यशन्तः ।
"Aho Shrut Gyanam"