________________
शब्दरत्नाकरेत्र्युकारस्तुम्बुरुश्चक्रेश्वर्यामप्रतिचक्रिका । अजिताऽजितबलायां, सुतारा तु सुतारका ॥९॥ निमीश्वरोऽर्हद्विशेषे द्वीकारोऽथ कृतार्घके । तुर्यहल, शूरदेवस्तु दन्त्यतालव्यसादिमः ॥ १० ॥ संवरो दन्त्यसादिः स्यात् , भद्रकृद् भद्र उच्यते । मोक्षे श्रेयः शिवं तालव्यादी, निःश्रेयसं पुनः॥१२॥ मध्यतालव्ययुक्, साधौ साधन्तः साधयन्तकः । रिष्यृषी यति-यतिनौ श्रमण-श्रवणौ तथा ॥ १२ ॥ मुनिखे तप-तपसी अदन्त-सान्तके स्मृते । प्रायश्चित्तं प्रायश्चित्तिः पापसंशोधके तपे ॥ १३ ॥ शिष्यः शिक्षु-शैक्षौ तालव्याद्याइछात्रे च तद्भिदि । व्रतादाने परिव्रज्या प्रव्रज्याऽप्यभिधीयते ॥ १४ ॥ क्षपणे नम-नग्नाटौ श्रमणः श्रवणोऽपि च । क्षेमे मद्रं भद्र-भन्ने प्रशस्तं शस्तमित्यपि ॥ १५ ॥ भावुकं भविकं भव्यं शिवं च श्वोवसीयसम् । श्रेयः स्वःश्रेयसं तालव्यादयः, कुशलं पुनः ॥ १६ ॥ मध्यतालव्यकं प्रोक्तं, सुभं तालव्य-दन्त्ययुक् । मङ्गल्यमपि माङ्गल्यं मङ्गलं च तथा स्मृतम् ॥ १७ ॥ इति वादीन्द्रश्रीसाधुकी[पाध्यायमिश्राणां शिष्यलेशेन वाचनाचार्यसाधुसुन्दरगणिना विरचितायां शब्दरत्नाकरनाम
शब्दमभेदनाममालायामर्हत्काण्डः प्रथमः ॥१॥
१ अतीतायां तीर्थकरचतुविशताकोनविंशे तीर्थेशे । २ तुर्यो हल धकारः।
"Aho Shrut Gyanam"