________________
षष्ठः काण्डः ।
स्फोटने स्फुटनं तद् भिदा, गीर्णो गिरिभवेत् ॥७॥ उद्यमे तु गूरणं स्याद् गुरणं च संगीर्णके । श्रुतं संप्रत्याङ्भ्यः परमु! यु-ररीतः कृतम् ॥ ७५ ।। खण्डिते छेदितं छिन्नं छितं छातं दिताऽन्वितम् । प्राप्ते तु भावितं भूतम् , भ्रष्टे पतित-पत्रके ॥७६॥ अतिक्रान्ते तीताऽतीते, गवेषिते तु मार्गितम् । मृगितवदन्विष्टं स्याद्, अन्वेषितमीप्सिते ॥७७॥ क्लिन्ने कृन्नं सार्द्रमा तिमितं स्तिमितं तथा । दूते सन्तापितं तप्तं धूपायितं च धूपितम् ॥७८॥ शीने स्त्यानमन्तर्गते विस्मृतं प्रस्मृतं समे । विदिते बुधितं बुद्धम् , स्यन्ने स्नुतं स्रुतं स्मृतम् ॥७९॥ रक्षिते तु त्राणं नातं गुप्तं गोपायितं तथा । वशक्रिया संवननं संवदनम् , स्थितौ पुनः ॥८॥ आस्याऽऽसना, पर्यटनेऽटाट्याऽटाटाऽप्यटाट्यया । वैपरीत्ये विपर्यासो विपर्यायोऽप्यनुक्रमे ॥८॥ क्रमः परिपाटि-परीपाटी स्यादानुपूर्व्यवत् । आनुपूर्वी, भवेदिष्टे निकामं च प्रकामवत् ॥८२॥ कामाप्त्यर्थे तु गाढमुद्गाढं भर-निर्भरौ । जम्भणं त्रिषु जम्भा स्यात् , परिष्वङ्गेऽङ्कपालिवत्॥८३॥ अङ्कपाली परिरम्भः परीरम्भोऽप्यथोत्सवे । १ संश्रुतमित्यादि । २ उरिकृतम् , ऊरिकृतम् , उररीकृतमिति ।
३ कथितमित्यर्थः ।
"Aho Shrut Gyanam"