________________
षष्ठः काण्डः। म्लानं मलीमसे प्रोक्तं मलिनं कश्मलं तथा ॥३८॥ कष्मलम् , मेध्ये पावनं पवित्रं च पविस्तथा । पूतं च, प्रकृष्टे मुख्यं प्रमुखं मुखमित्यपि ॥३९॥ प्रधानमजहल्लिङ्गं वाच्यलिङ्गमपि स्मृतम् । वरं वरेण्यं प्रवरमग्न्यमग्रीयमग्रियम् ॥४०॥ अग्रिममनुत्तमं चोत्तमं चाऽनवरा-ऽयंवत् । परं परायें ग्रामण्य-ऽग्रण्यग्रे प्रष्ठमन्तठम् ॥४॥ सत्तमे श्रेयसा श्रेष्ठं स्याद् टवर्गद्वितीययुक् । उपसर्जनमाविष्टलिङ्गं स्यादप्रधानके ॥ ४२ ॥ निकृष्टे त्वपकृष्टं स्यादधमं चाऽवमं समे । याप्यं याव्यं रेप-रेफौ रेपो रेफश्च सान्तिमे ॥४३॥ अर्वाऽर्वाणोऽसेचनकमासेचनकमित्यऽपि । देर्शनाद् दृगतपेऽर्थे, शोभने मञ्जु-मञ्जुलौ ॥४४॥ रम्यं रमणीयं सौम्यं सोमं बन्धूर-बन्धुरे । नमेऽपि कमनीयं स्यात् काम्यं कनं मनोरमम् ॥४५॥ रामाऽभिरामे चाऽसारे शक्यं शिक्यं च, रिक्तके । शून्यं शुन्यं च, प्रत्यग्रे नवीना-ऽभिनवे नवम् ॥४६॥ नव्यवद् नूतनं नूनम् , जीर्ण जरति जर्णवत् । प्रणं प्रीणं पुराणं च प्रतनं च पुरातनम् ॥४७॥ प्रत्नं चिरत्नं च चिरन्तनम् , परुद्भवे मतम् । १ ठकारान्तमित्यर्थः । २ एतदन्ता निकृष्टपर्यायाः । ३ दृष्टेऽप्यर्थे येन न तृप्यति दृग सोऽर्थो इगतपः, तस्मिन्नित्यभिप्रेतम् ।
"Aho Shrut Gyanam"