________________
शब्दरत्नाकरेवातानाम् , खलानां खल्या खलिनी, रथकट्यया । रथ्या रथानाम् , यौवतं यौवनं युवतीगणे ॥ २८ ॥ वंशादिदलनिर्मितभाण्डराशाविदं द्वयम् । स्यात् पिटक्या पिटाक्या च हेल्या हालं हलोत्करौ॥२९॥ पतौ वीथी वीथिरालिरावलिरावली मता । राजि-राज्यौ रेखा लेखा समाने पुंस्त्रियोः स्मृता॥३०॥ श्रेणिः श्रेणी च युग्मे तु युगवद्युगलं यमम् । यमलं यामलं इन्दं दन्दं द्वैतं द्विती द्वयम् ॥ ३१ ॥ द्वितयम् , प्रचुरे भूयो भूयिष्ठं पुरुहं पुरु । बहुलं बहु बहूलम् , लेशे त्रुटि-तुटी समौ ॥ ३२ ॥ अत्यल्पे त्वल्पीयोऽल्पिष्ठमुच्चे तूत्तुङ्ग-तुङ्गकौ।। उदग्रमनुदग्रं च, खर्वे न्यग् नीचवद्, गुरौ ॥ ३३ ॥ पृथुलं पृथु विपुलं पुलं वद्रं च ववत् । वरिष्ठं वर्गद्वितीयाप्तमारोहे समुच्छ्रयः ॥ ३४ ॥ उच्छ्रायश्च, प्रपञ्चे तु विस्तारो विस्तरोऽपि च । शब्दे विस्तर एवैकः, समस्ते निखिला-ऽखिले ॥३५॥ समं सिमं च निःशेषाऽ-शेषे सकल-शल्कके । अन्यूनाऽनूने, अपूर्णे उनमूनम् , समाईके ॥ ३६ ॥ शकलं शक्लं खण्डं च खण्डलं चाऽपि, भागके । अंसस्तालव्यदन्त्यान्तः, भागेऽर्थेऽष्टम आष्टमः ॥३७॥ षष्ठः पाठः, मानभागे षष्ठः पाष्ठश्च षष्ठकः । , हल्या-हालशब्दौ हलसमूहवाचिनाविति हृदयम् ।
"Aho Shrut Gyanam"